Webdunia - Bharat's app for daily news and videos

Install App

श्री गुरुचरित्रातील श्री गुरुगीता

Webdunia
मंगळवार, 21 जानेवारी 2025 (16:11 IST)
श्रीगणेशाय नमः ॥ श्रीसरस्वत्यै नमः ॥ श्रीगुरुभ्यो नमः ॥
नामधारक शिष्य सगुण । लागे सिद्धाच्या चरणा । विनवीतसे सुलक्षणा । करी नमस्कार अष्टांगे ॥१॥
जयजयाजी सिद्धमुनि । तूं राजयोगी ब्रह्मज्ञानी । गुरुचरित्र दाविलें नयनीं । कृपासागरा गुरुमूर्ति ॥२॥
स्वामी निरोपिले सकळ धर्म । त्याणें झालें निःशेष कर्म । साध्य झालें परावर्म । तुझिये कृपें दातारा ॥३॥
( श्लोक ) ‘ अनादिघोरसंसार ध्वांत्ध्वंसैकहेतवे । नमः श्रीनाथवैद्याय, भवौषधविधायिने ॥१॥ ’
( टीका ) संसारसागरा पहातां । अनादि नाहीं आदिअंता । महाघोर मलबद्धता । उत्तीर्णता नाहीं याकारणें ॥४॥
म्हणोनि शरण रिघावें । तो तारक या भवार्णवा पहावें । औषध घ्यावें मनोभावें । आरोग्य होय तात्काळीं ॥५॥
ऐसा आगमनिगमसिद्धान्त । बोलताति बुद्धिवंत । युगायुगीं फिरत जात । या संसारसागरीं ॥६॥
गुरुभक्ति म्हणिजे कामधेनु । जे आचरती विद्वज्जनु । वशिष्ठादि शुकमुनि । सारज्ञ जे शास्त्रांचे ॥७॥
ईश्वरपार्वती संवाद । कथा निर्मळ अति विनोद । ते आचरती मुक्तिपद । हा मार्ग सद्गुरूचा ॥८॥
पार्वतीं पुशिलें ईश्वराप्रती । ईश्वरें सांगितलें कवणें रीतीं । जेणें लोक उद्धरती । ते निरोपावें दातारा ॥९॥
शिष्यप्रश्न ऐकोनि । संतोष पावला सिद्धमुनि । धन्य धन्य तुझे जीवनी । गुरुसेवातत्पर बाळका ॥१०॥
तुवां पुसिलें अनादि कथन । जेणें होय मोहशमन । अज्ञानपण सांडोनि दृढ मन । सूर्यप्रकाश जेवीं लोकांसी ॥११॥
ऐक वत्सा गुरुदास्यका । भला केला तुवां प्रश्न निका । सांगेन आतां कुळदीपका । एकचित्तें अवधारीं ॥१२॥
पूर्वी कैलासशिखरीं । बैसला होता त्रिपुरारि । प्रश्न करी शैल्यकुमरी । समस्त लोक उद्धरावया ॥१३॥
 
श्रीगुरुगीता प्रारंभः ॥
ॐ अस्य श्रीगुरुगीतास्तोत्रमंत्रस्य भगवान् सदाशिवऋषिः । नानाविधानि छंदांसि । श्रीगुरुपरमात्मा देवता । हं बीजं । सः शक्तिः । क्रों कीलकं । श्रीगुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ ( अथ करन्यासाः ) ॥ ॐ हं सां निरंजनात्मने मध्यमाभ्यां नमः । ॐ हं सैं निराभासात्मने अनामिकाभ्यां नमः । ॐ हं सौं अतनुसूक्ष्मात्मने कनिष्ठिकाभ्यां नमः । ॐ हं सः अव्यक्तात्मने करतलकरपृष्ठाभ्यां नमः । ( अथ हृदयादिन्यासाः ) ॐ हं सां सूर्यात्मने हृदयाय नमः । ॐ हं सीं सोमात्मने शिरसे स्वाहा । ॐ हं सूं निरंजनात्मने शिखायै वषट् । ॐ हं सैं निराभासात्मने कवचाय हुं । ॐ हं सौं अतनुसूक्ष्मात्मने नेत्रत्रयाय वौषटू । ॐ हं सः अव्यक्तात्मने अस्त्राय फट् । ॐ ब्रह्म भूर्भुवः स्वरोमिति दिग्बन्धः । अथ ध्यानं । हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैजंगत्कारणैर्विश्वोत्कीर्ण मनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया ॥ तद्योतं पदशांभवं तु चरनं दीपांकुरग्राहिणं । प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥१॥
मम चतुर्विध पुरुषार्थसिद्ध्यर्थे जपे विनियोगः ॥
सूत उवाच ।
कैलासशिखरे रम्ये भक्ति संधान - नायकम् । प्रणम्य पार्वती भक्त्या शंकरं पर्यपृच्छत ॥१॥
श्रीदेव्युवाच ।
ॐ नमो देवदेवेश परात्पर जगद्गुरो । सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥२॥
केन मार्गेण भो स्वामिन् देही ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥३॥
ईश्वर उवाच ।
ममरूपासि देवि त्वं, त्वत्प्रीत्यर्थं वदाम्यहम् । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥४॥
दुर्लभं त्रिषु लोकेषु तचछृणुष्व वदाम्यहम् । गुरुं विना ब्रह्म नान्यत् सत्यं सत्यं वरानने ॥५॥
वेदशास्त्रपुराणानि इतिहासादिकानि च । मंत्रयंत्रादि विद्याश्च स्मृतिरुच्चाटनादिकम् ॥६॥
शैवशाक्तागमादीनि अन्यानि विविधानि च । अपभ्रंशकराणीह जीवानां भ्रांतचेतसाम् ॥७॥
यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥८॥
गुरुबुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः । तल्लाभार्थं प्रयत्नस्तु, कर्तव्यो हि मनीषिभिः ॥९॥
गूढविद्या जगन्माया देहे चाज्ञानसंभवा । उदयः स्वप्रकाशेन गुरुशब्देन कथ्यते ॥१०॥
सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । देही ब्रह्म भवेद्यस्मात् तत्कृपार्थं वदामि ते ॥११॥
गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् । सर्वतीर्थावगाहस्य संप्राप्नोति फलं नरः ॥१२॥
शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् । गुरुपादोदकं सम्यक् संसारार्ण - वतारकम् ॥१३॥
अज्ञानमूलहरणं जन्मकर्मनिवारणं । ज्ञानवैराग्यसिद्ध्यर्थं, गुरुपादोदकं पिबेत् ॥१४॥
गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् । गुरुमूर्तेः सदा ध्यानं गुरुमंत्रं सदा जपेत् ॥१५॥
काशीक्षेत्रं तन्निवासो जान्हवी चरणोदकम् । गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् ॥१६॥
गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । तीर्थराजः प्रयागश्च गुरुमूर्ते नमो नमः ॥१७॥
गुरुमूर्ति स्मरेन्नित्यं गुरुनाम सदा जपेत् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥१८॥
गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः । गुरोर्ध्यानं सदा कुर्यात् कुलस्त्री स्वपतेर्यथा ॥१९॥
स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् । एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् ॥२०॥
अनन्याश्चिन्तयन्तो नां सुलभं परमं पदम् । तस्मात्सर्वप्रयत्नेन गुरोराराधनं कुरु ॥२१॥
त्रैलोक्यस्फुटवक्तारो देवाद्यसुरपन्नगाः । गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ॥२२॥
गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥२३॥
गुकारः प्रथमो वर्णो, मायादिगुणभासकः । रुकारो द्वितीयो ब्रह्म मायाभ्रान्तिविनाशम् ॥२४॥
एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । हाहाहूहूगणैश्चैव गन्धर्वेश्च प्रपूज्यते ॥२५॥
ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥२६॥
साधकेन प्रदातव्यं गुरुसंतोषकारकम् । गुरोराराधनं कार्य स्वजीवित्वं निवेदयेत् ॥२७॥
कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् । दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥२८॥
शरीरमिन्द्रियं प्राणं सद्गुरुभ्यो निवेदयेत् । आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥२९॥
कृमिकीटभस्मविष्ठा - दुर्गन्धिमलमूत्रकम् । श्लेष्म - रक्तं त्वचा मांस वंचयेन्न वरानने ॥३०॥
संसारवृक्षमारूढाः पतन्तो नरकार्णवे । येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥३१॥
गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥३२॥
हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शंभवे गुरवे नमः ॥३३॥
अज्ञानतिमिरांधस्य ज्ञानांजनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥३४॥
त्वं पिता त्वं च मे माता त्वं बंधुस्त्वं च देवता । संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥३५॥
यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् । यदानंदेन नंदंति तस्मै श्रीगुरवे नमः ॥३६॥
यस्य स्थित्या सत्यमिदं, यद्भाति भानुरूपतः । प्रियं पुत्रादि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥३७॥
येन चेतयते हीदं चित्तं चेतयते न यम् । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥३८॥
यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः । सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥३९॥
‘ यस्यामतं तस्य मतं मतं यस्य न वेद सः । ’ अनन्यभावभावाय तस्मै श्रीगुरवे नमः ॥४०॥
यस्य कारणरूपस्य कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥४१॥
नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता । कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥४२॥
यदंघ्रिकमलद्वंद्वं द्वंद्वतापनिवारकं । तारकं सर्वदाऽऽपद्भयः श्रीगुरुं प्रणमाम्यहम् ॥४३॥
शिवे कृद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि । तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥४४॥
वन्दे गुरुपदद्वंद्वं वाड्मनश्चित्तगोचरं । स्व्हेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥४५॥
गुकारं च गुणातीतं रुकारं रूपवर्जितम् । गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥४६॥
अ - त्रिनेत्रः सर्वसाक्षि अ - चतुर्बाहुरच्युतः । अ - चतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥४७॥
अयं मयाञ्चलिर्बद्धो दयासागरवृद्धये । यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥४८॥
श्रीगुरोः परमं रूपं विवेचक्षुषोऽमृतम् । मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥४९॥
श्रीनाथचरणद्वंद्व यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्याद्भक्त्या प्रतिदिनं प्रिये ॥५०॥
तस्यै दिशे सततमञ्जलिरेष आर्ये । प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च । जागर्ति यत्र भगवान् गुरुचक्रवर्ती । विश्वोदयप्रलयनाटकनित्यसाक्षी ॥५१॥
श्रीनाथादिगुरुत्रयं गणपतिं पीठत्रयं भैरवं । सिद्धौघं बटुकत्रयं पदयुगं दूतीत्रयं शांभवम् । वीरेशाष्टचतुष्कषष्टिनवकं वीरावलीपंचकं । श्रीमन्मालिनिमंत्रराजसहितं वन्दे गुरोर्मण्डलम् ॥५२॥
अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिर्पदैर्दुष्करैः । प्राणा - यामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः । यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् । प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ॥५३॥
स्वदेशिकस्यैव शरीरचिन्तनं, भवेदनन्तस्य शिवस्य चिन्तनम् । स्वदेशिकस्यैव च नमकीर्तनं, भवेदनन्तस्य शिवस्य कीर्तनम् ॥५४॥
यत्पादरेणुकणिका कापि संसारवारिधेः । सेतुबधायते नाथं देशिकं तमुपास्महे ॥५५॥
यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् । तस्मै श्रीदेशिककेंद्राय नमश्चाभष्टसिद्धये ॥५६॥
पादाब्जं सर्वसंसार - दावानल - विनाशकं । ब्रह्मरंध्रे सितम्भोजमध्यस्थं चन्द्रमण्डले ॥५७॥
अकठादित्रिरेखाब्जे सहस्रदल - मण्डले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥५८॥
सकलभुवनसृष्टिः कल्पिताशेषपुष्टि - । र्निखिलनिगमदृष्टिः संपदां व्यर्थदृष्टि । अवगुण परिमार्ष्टिस्तत्पदार्थैकदृष्टि - । र्भवगुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥५९॥
सकल भुवनरंगस्थापनास्तंभयष्टिः । सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । सकलसमयसृष्टिः सच्चिदानंददृष्टिर्निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥६०॥
अग्निशुद्धसमंतात ज्वालापरिचक्राधिया । मंत्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥६१॥
तदेजति तन्नैजति तद्दूरे तत्समीपके । तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥६२॥
अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् । अविकारश्चिदानन्द अणीयान्महतो महान् ॥६३॥
अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् । विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥६४॥
श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । यस्य चात्मतपो वेद देशिकं च सदा स्मरन् ॥६५॥
मननं यद्भवं कार्यं तद्वदामि महामते । साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् ॥६६॥
अखण्डमण्डलाकारं व्याप्तं येन चराचरं । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥६७॥
सर्वश्रुतिशिरोरत्नविराजिपदांबुजः । वेदान्ताम्बुजसूर्यो यस्तस्मै श्री० ॥६८॥
यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्वसंप्राप्तिस्तस्मै श्रीगुरवे नमः ॥६९॥
चैतन्यं शाश्वतं शान्तं व्योमातीतं निरंजनम् । नादबिंदुकलातीतं तस्मै श्रीगुरवे नमः ॥७०॥
स्थावरं जंगमं चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥७१॥
ज्ञानशक्तिसमारूढस्तत्त्वमालाविभूषितः । भुक्तिमुक्तिप्रदातायस् तस्मै श्रीगुरवे नमः ॥७२॥
अनेकजन्मसंप्राप्त - सर्वकर्मविदाहिने । स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥७३॥
न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥७४॥
मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः । ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥७५॥
ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मंत्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥७६॥
गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरः नास्ति तस्मै श्रीगुरवे नमः ॥७७॥
सप्तसागरपर्यन्ततीर्थस्नानादिकं फलम् । गुरोरंघ्रिपयोबिंदुसहस्रांशे न दुर्लभम् ॥७८॥
हरौ रुष्टे गुत्रस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥७९॥
गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्संपूजयेद् गुरुम् ॥८०॥
ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः । गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥८१॥
यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । मनसा वचसा चैव नित्यमाराधयेद् गुरुम् ॥८२॥
गुरोः कृपाप्रसादेन ब्रह्मविष्णुसदाशिवाः । समर्थाः प्रभवादौ च कैवल्यं गुरुसेवया ॥८३॥
देवकिन्नरगंधर्वाः पितरो यक्षचारणाः । मुनयो पि न जानन्ति गुरुशुश्रूषणे विधिम् ॥८४॥
महाहंकारगर्भेण तपोविद्या - बलन्विताः । संसारकुहरावर्ते घटयंत्रे यथा घटाः ॥८५॥
न मुक्ता देवगंधर्वाः पितरो यक्षकिन्नराः । ऋषयः सर्वसिद्धाश्च गुरुसेवापराड्मुखाः ॥८६॥
ध्यानं श्रृणु महादेवि सर्वानंदप्रदायकम् । सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ॥८७॥
श्रीमत् परब्रह्म गुरुं स्मरामि । श्रीमत्परब्रह्म गुरुं वदामि । श्रीमत्परब्रह्म गुरुं नमामि । श्रीमत्परब्रह्म गुरुं भजामि ॥८८॥
ब्रह्मानंदं परमसुखदं केवलं ज्ञानमूर्ति । द्वंद्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षीभूतं । भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥८९॥
नित्यं शुद्धं निराभासं निराकारं निरंजनम् । नित्यबोधं चिदानंदं गुरुं ब्रह्म नमाम्यहम् ॥९०॥
हृदंबुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । ध्यायेद् गुरुं चंद्रकलाप्रकाशं चित्पुस्तकाभीष्टवरं दधानम् ॥९१॥
श्वेतांबरं श्वेतविलेपपुष्पं । मुक्ताविभूषं मुदितं द्विनेत्रम् । वामांकपीठ - स्थितदिव्यशक्तिं । मंदस्मितं सांद्रकृपानिधानम् ॥९२॥
आनंदमानंदकरं प्रसन्नं । ज्ञानस्वरूपं निजबोधयुक्तम् । योगींद्रमीड्यं भवरोगवैद्यं । श्रीमद्गुरुं नित्यममहं नमामि ॥९३॥
यस्मिन्सृष्टिस्थितिध्वंस - निर्ग्रहानुहात्मकम् । कृत्यं पंचविधं शश्वद्भासते तं नमाम्यहम् ॥९४॥
प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । वराभययुतं शांत स्मरेत्तं नामपूर्वकम् ॥९५॥
न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥९६॥
इदमेव शिवं त्विदमेव शिवं । त्विदमेव शिवं त्विदमेव शिवम् । मम शासनतो मम शासनतो मम शासनतो । मम शासनतः ॥९७॥
एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥९८॥
गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् । अनित्यं खण्डयेत्सर्वं यत्किंचिदात्मगोचरम् ॥९९॥
ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पंथा द्वितीयकः ॥१००॥
एवं श्रुत्वा महादेवि गुरुनिंदां करोति यः । स याति नरकं घोरं यावच्चंद्रदिवाकरौ ॥१॥
यावत्कल्पांतको देहस्तावदेव गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः स्वच्छंदो यदि वा भवेत् ॥२॥
हुंकारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथंचन । गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥३॥
गुरुं त्वं कृत्य हुं कृत्यं गुरुं निर्जित्य वादतः । अरण्ये निर्जले देशे स भवेद् ब्रह्मराक्षसः ॥४॥
मुनिमिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि । कालमृत्यु - भयाद्वापि गुरु रक्षति पार्वति ॥५॥
अशक्ता हि सुराद्याश्च अशक्ता मुनयत्सथा । गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ॥६॥
मंत्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् ॥७॥
श्रृति - स्मृती अविज्ञाय केवलं गुरुसेवकाः । ते वै संन्यासिनः प्रोक्ता इतरे विषधारिणः ॥८॥
नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् । सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ॥९॥
गुरोःकृपाप्रसादेन आत्मारामं निरीक्षयेत् । अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ॥११०॥
आब्रह्मस्तंबपर्यंतं परमात्मस्वरूकम् । स्थावरं जंगमं चैव प्रणमामि जगन्मयम् ॥११॥
वंदेऽहं सच्चिदानंदं भेदातीतं सदा गुरुम् । नित्यं पूर्ण निराकारं निर्गुणं स्वात्मसंस्थितम् ॥१२॥
परात्परतरं ध्येयं नित्यमानंदकारकम् । हृदयाकाशमध्यस्थं शुद्धफटिकसन्निभम् ॥१३॥
स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा । तथात्मनि चिदाकारमानंदं सोऽ‍हमित्युत ॥१४॥
अंगुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि । तत्र स्फुरति भावो यः श्रृणु तं कथयाम्यहम् ॥१५॥
अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति ॥१६॥
यथा गंधः स्वभावेन कर्पूरकुसुमादिषु । शीतोष्णदिस्वभावेन तथा ब्रह्म च शाश्वतम् ॥१७॥
स्वयं तथाविधो भूत्त्वा स्थातव्यं यत्रकुत्रचित् । कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥१८॥
गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । पिंडे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः ॥१९॥
स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् । परात्परतरं नान्यत् सर्वमेतन्निरालयम् ॥१२०॥
तस्यावलोकनं प्राप्य सर्वसंगविवर्जितम् । एकाकी निःस्पृहः शान्सस्तिष्ठासेत् तत्प्रसादतः ॥२१॥
लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा ॥२२॥
सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः । सदानंदः सदा शान्तो रमते यत्रकुत्रचित् ॥२३॥
यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम् । मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥२४॥
उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः । गुर्भक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ॥२५॥
अनेन यद्भवेत्कार्य तद्वदामि महामते । लोकोपकारकं देवि लौकिकं तु न भावयेत् ॥२६॥
लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम् । ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् ॥२७॥
इदं तु भक्तिभावेन पठते श्रृणुते यदि । लिखित्वा तत्प्रदातव्यं दानं दक्षिणयासह ॥२८॥
गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् । भवव्याधिविनाशार्थ स्वयमेव जपेत्सदा ॥२९॥
गुरुगीताक्षरैकं तु मंत्रराजमिमं जपेत् । अन्ये च विविधा मंत्राः कलां नार्हन्ति षोडशीम् ॥१३०॥
अनंतफलमाप्नोति गुरुगीताजपेन तु । सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् ॥३१॥
कालमृत्युभयहरं सर्वसंकटनाशनम् । यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् ॥३२॥
महाव्याधिहरं सर्वं विभूतिसिद्धीदं भवेत् । अथवा मोहनं वश्यं स्वयमेव जपेत्सदा ॥३३॥
कुशैर्वा दूर्वयादेवि आसने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥३४॥
ध्येयं शुक्लं च शांत्यर्थ वश्ये रक्तासनं प्रिये । अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ॥३५॥
उत्तरें शांतिकामस्तु वश्ये पूर्वमुखो जपेत् । दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः ॥३६॥
मोहनं सर्वभूतानां बंधमोक्षकरं भवेत् । देवराजप्रियकरं सर्वलोकवशं भवेत् ॥३७॥
सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ॥३८॥
असिद्धं साधयेत्कार्यं नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव सुस्वप्नफदायकम् ॥३९॥
सर्वशान्तिकरं नित्यं तथा वंध्यासुपुत्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा ॥१४०॥
आयुरारोग्यमैश्वर्य - पुत्रपौत्रप्रवर्धनम् । अकामतः स्त्री विधवा जपान्मोक्षवाप्नुयात् ॥४१॥
अवैधव्यं सकामा तु लभते चान्यजन्मनि । सर्वदुःअभयं विघ्नं नाशयेच्छापहारकम् ॥४२॥
सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । यं यं चिंतयते कामं तं तं प्राप्नोति निश्चितम् ॥४३॥
कामितस्य कामधेनुः कल्पनाकल्पपादपः । चिन्तामणिश्चिंतितस्य सर्वमंगलकारकम् ॥४४॥
मोक्षहेतुर्जपन्नित्यं मोक्षश्रियमवाप्नुयात् । भोगकामो जपेद्यो वै तस्य कामफलप्रदम् ॥४५॥
जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः । शैवश्च सिधिदं देवि सत्यं सत्यं न संशयः ॥४६॥
अथ काम्यजपे स्थानं कथायामि वरानने । सागरे वा सरित्तीरऽथवा हरिहरालये ॥४७॥
शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे । वटे च धात्रिमूले वा मठे वृंदावने तथा ॥४८॥
पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन जपमेतं समाचरेत् ॥४९॥
स्मशाने भयभूमौ तु वटमूलान्तिके तथा । सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ ॥५०॥
गुरुपुत्रो वरं मूर्खस्तस्य मलनाशार्थ भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥५१॥
संसारमलनाशार्थ भवपाशनिवृत्तये । गुरुगीतांभसि स्नानं तत्त्वज्ञः कुरुते सदा ॥५२॥
स एव च गुरुः साक्षात् सदा सद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥५३॥
सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति । तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि ॥५४॥
आसनस्थः शयानो वा गच्छेस्तिष्ठन् वदन्नपि । अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा ॥५५॥
शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु । तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥५६॥
समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतं । भिन्ने कुंभे यथाकाश - स्तथात्मा परमात्मनि ॥५७॥
तथैव ज्ञानी जीवात्मा परमात्मनि लीयते । ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् ॥५८॥
एवंविधो महामुक्तः सर्वदा वर्तते बुधः । तस्य सर्वप्रयत्नेन भावभक्तिं करोनि यः ॥५९॥
सर्वसंदेहरहितो मुक्तो भवति पार्वति । भुक्तिमुक्तिद्वयं तस्य जिव्हाग्रे च सरस्वती ॥१६०॥
अनेन प्राणिनः सर्वे गुरुगीताजपेन तु । सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः ॥६१॥
सत्यं सत्यं पुनः सत्यं धर्मं सांख्यं मयोदितं । गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ॥६२॥
एको देव एकधर्म एकनिष्ठा परंतपः । गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥६३॥
माता धन्य पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुर्भक्तिः सुदुर्लभा ॥६४॥
शरीरमिंद्रियं प्राणश्चार्थः स्वजनबांधवाः । माता पिता कुलं देवि गुरुरेव न संशयः ॥६५॥
आकल्प जन्मना कोट्या जपव्रततपः क्रियाः । तत्सर्वं सफलं देवि गुरुसंतोषमात्रतः ॥६६॥
विद्यातपोबलेनैव मंदभाग्याश्च ये नराः । गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ॥६७॥
ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः । सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः ॥६८॥
गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥६९॥
जपेन जयमाप्नोति चानंतपलमाप्नुयात् । हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च ॥१७०॥
उग्रध्यानं कुक्कुटस्थं हीनकर्मफलप्रदं । गुरुगीतां प्रयाणे वा संग्रामे रिपुसंकटे ॥७१॥
जपते जयमाप्नोति मरणे मुक्तिदायकम् । सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ॥७२॥
इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया । सुगोप्यं च प्रयत्नेन मम त्वं च प्रियात्विति ॥७३॥
स्वामिमुख्यगणेशादिविष्णवादीनां च पार्वति । मनसापि प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये ॥७५॥
अभक्ते वंचके धूर्तें पाखण्डे नास्तिके नरे । मनसापि व वक्तव्या गुरुगीता कदाचन ॥७६॥
इति श्रीस्कंदपुराणे उत्तरखण्डे ईश्वरपार्वतीसंवादे गुरुगीता समाप्ता ।
 
श्रीगुरुदेवदत्तात्रेयार्पणमस्तु
ALSO READ: संपूर्ण श्री सप्तशती गुरुचरित्र अध्याय १ ते ५२

संबंधित माहिती

सर्व पहा

नवीन

आरती शनिवारची

Somvati Amavasya 2025: सोमवती अमावस्या विधी, महत्त्व आणि कथा

शनिवारी मारुती स्तोत्र वाचण्याचे फायदे, कधी आणि किती वेळा पठण करावे?

Apara Ekadashi 2025: अपरा एकादशी कधी? पूजा विधी आणि जाणून घ्या महत्त्व

Apara Ekadashi 2025 अपरा एकादशीला या गोष्टी दान करा, आयुष्यात आनंद येईल

सर्व पहा

नक्की वाचा

गुरुचरित्र विषयी महत्त्वाची माहिती

Vat Savitri Vrat 2025 वट सावित्री व्रत कधी आहे, जाणून घ्या पूजा मुहूर्त आणि विधी

आरोग्यवर्धक सीताफळची पाने रक्ताची कमतरता दूर करून हाडे मजबूत करते

शुक्राणूंची संख्या वाढवण्यासाठी कोणती डाळ खाणे सर्वात योग्य ठरेल?

Things to Avoid in Kitchen तुमच्या स्वयंपाकघरात या वस्तू तर नाही? असतील तर लगेच बाहेर काढा

पुढील लेख
Show comments