Festival Posters

एकादशमुखहनुमत्कवचम्

Webdunia
शनिवार, 20 एप्रिल 2024 (05:11 IST)
श्रीगणेशाय नमः ।
लोपामुद्रा उवाच ।
 
कुम्भोद्भव दयासिन्धो श्रुतं हनुमतः परम् ।
यन्त्रमन्त्रादिकं सर्वं त्वन्मुखोदीरितं मया ॥ १॥
 
दयां कुरु मयि प्राणनाथ वेदितुमुत्सहे ।
कवचं वायुपुत्रस्य एकादशमुखात्मनः ॥ २॥
 
इत्येवं वचनं श्रुत्वा प्रियायाः प्रश्रयान्वितम् ।
वक्तुं प्रचक्रमे तत्र लोपामुद्रां प्रति प्रभुः ॥ ३॥
 
अगस्त्य उवाच ।
नमस्कृत्वा रामदूतां हनुमन्तं महामतिम् ।
ब्रह्मप्रोक्तं तु कवचं श्रृणु सुन्दरि सादरम् ॥ ४॥
 
सनन्दनाय सुमहच्चतुराननभाषितम् ।
कवचं कामदं दिव्यं रक्षःकुलनिबर्हणम् ॥ ५॥
 
सर्वसम्पत्प्रदं पुण्यं मर्त्यानां मधुरस्वरे ।
ॐ अस्य श्रीकवचस्यैकादशवक्त्रस्य धीमतः ॥ ६॥
 
हनुमत्स्तुतिमन्त्रस्य सनन्दन ऋषिः स्मृतः ।
प्रसन्नात्मा हनूमांश्च देवता परिकीर्तिता ॥ ७॥
 
छन्दोऽनुष्टुप् समाख्यातं बीजं वायुसुतस्तथा ।
मुख्यः प्राणः शक्तिरिति विनियोगः प्रकीर्तितः ॥ ८॥
 
सर्वकामार्थसिद्धयर्थं जप एवमुदीरयेत् ।
ॐ स्फ्रेंबीजं शक्तिधृक् पातु शिरो मे पवनात्मजः ॥ ९॥
 
क्रौंबीजात्मा नयनयोः पातु मां वानरेश्वरः ।
क्षंबीजरूपः कर्णौ मे सीताशोकविनाशनः ॥ १०॥
 
ग्लौंबीजवाच्यो नासां मे लक्ष्मणप्राणदायकः ।
वंबीजार्थश्च कण्ठं मे पातु चाक्षयकारकः ॥ ११॥
 
ऐंबीजवाच्यो हृदयं पातु मे कपिनायकः ।
वंबीजकीर्तितः पातु बाहू मे चाञ्जनीसुतः ॥ १२॥
 
ह्रांबीजो राक्षसेन्द्रस्य दर्पहा पातु चोदरम् ।
ह्रसौंबीजमयो मध्यं पातु लङ्काविदाहकः ॥ १३॥
 
ह्रींबीजधरः पातु गुह्यं देवेन्द्रवन्दितः ।
रंबीजात्मा सदा पातु चोरू वार्धिलंघनः ॥ १४॥
 
सुग्रीवसचिवः पातु जानुनी मे मनोजवः ।
पादौ पादतले पातु द्रोणाचलधरो हरिः ॥ १५॥
 
आपादमस्तकं पातु रामदूतो महाबलः ।
पूर्वे वानरवक्त्रो मामाग्नेय्यां क्षत्रियान्तकृत् ॥ १६॥
 
दक्षिणे नारसिंहस्तु नैऋर्त्यां गणनायकः ।
वारुण्यां दिशि मामव्यात्खगवक्त्रो हरीश्वरः ॥ १७॥
 
वायव्यां भैरवमुखः कौबेर्यां पातु मां सदा ।
क्रोडास्यः पातु मां नित्यमैशान्यं रुद्ररूपधृक् ॥ १८॥
 
ऊर्ध्वं हयाननः पातु गुह्याधः सुमुखस्तथा ।
रामास्यः पातु सर्वत्र सौम्यरूपो महाभुजः ॥ १९॥
 
इत्येवं रामदूतस्य कवचं यः पठेत्सदा ।
एकादशमुखस्यैतद्गोप्यं वै कीर्तितं मया ॥ २०॥
 
रक्षोघ्नं कामदं सौम्यं सर्वसम्पद्विधायकम् ।
पुत्रदं धनदं चोग्रशत्रुसंघविमर्दनम् ॥ २१॥
 
स्वर्गापवर्गदं दिव्यं चिन्तितार्थप्रदं शुभम् ।
एतत्कवचमज्ञात्वा मन्त्रसिद्धिर्न जायते ॥ २२॥
 
चत्वारिंशत्सहस्राणि पठेच्छुद्धात्मको नरः ।
एकवारं पठेन्नित्यं कवचं सिद्धिदं पुमान् ॥ २३॥
 
द्विवारं वा त्रिवारं वा पठन्नायुष्यमाप्नुयात् ।
क्रमादेकादशादेवमावर्तनजपात्सुधीः ॥ २४॥
 
वर्षान्ते दर्शनं साक्षाल्लभते नात्र संशयः ।
यं यं चिन्तयते चार्थं तं तं प्राप्नोति पूरुषः ॥ २५॥
 
ब्रह्मोदीरितमेतद्धि तवाग्रे कथितं महत ॥ २६॥
 
इत्येवमुक्त्वा वचनं महर्षिस्तूष्णीं बभूवेन्दुमुखीं निरीक्ष्य ।
संहृष्टचित्तापि तदा तदीयपादा ननामातिमुदा स्वभर्तुः ॥ २७॥
 
॥ इत्यगस्त्यसारसंहितायामेकादशमुखहनुमत्कवचं सम्पूर्णम् ॥

संबंधित माहिती

सर्व पहा

नवीन

पांडुरंगाच्या कानात मासे का? जाणून घ्या त्यामागचे रहस्य!

Devshayani Ashadhi Ekadashi 2026 Wishes Images देवशयनी आषाढी एकादशी शुभेच्छा इमेजेस

आषाढी एकादशी 2026: उपवासाचे नियम, पूजा विधी, शुभ मुहूर्त आणि पारणाची योग्य वेळ

भगवान पांडुरंग विटेवर का उभे आहेत? जाणून घ्या भक्त पुंडलिकाची अद्भुत कथा

महाराष्ट्रातील 'धाकटी पंढरी' म्हणून ओळखली जाणारी अत्यंत प्रसिद्ध विठ्ठल मंदिरे

सर्व पहा

नक्की वाचा

आषाढी एकादशीच्या दिवशी 'या' ७ गोष्टी टाळाच; अन्यथा विठ्ठल पूजेचे फळ मिळणार नाही!

जळणाऱ्या नातेवाईकांपासून स्वतःचा बचाव कसा करावा? आचार्य चाणक्यांचे विचार जाणून घ्या

महाराष्ट्रातील सर्वात थंड गाव कोणतं? उत्तर ऐकून आश्चर्य वाटेल

वयाच्या ३५ नंतर मित्र अचानक कमी का होतात?

स्वयंपाकघरातील हा एक बदल वीजबिल कमी करू शकतो

पुढील लेख
Show comments