Publish Date: Mon, 15 Jun 2026 (08:50 IST)
Updated Date: Mon, 15 Jun 2026 (11:36 IST)
त्रिदळं त्रिगुणाकारं त्रिनेत्रं च त्रयायुधम् ।
त्रिजन्मपापसंहारमेकबिल्वं शिवार्पणम् ॥१॥
त्रिशाखैर्बिल्वपत्रैश्च ह्यच्छिद्रैः कोमळैः शुभैः ।
शिवपूजां करिष्यामि ह्येकबिल्वम् शिवार्पणम् ॥२॥
अखण्डबिल्वपत्रेण पूजिते नन्दिकेश्वरे ।
शुध्यन्ति सर्वपापेभ्यो ह्येकबिल्वम् शिवार्पणम् ॥३॥
शालिग्रामशिलामेकां विप्राणां जातु अर्पयेत् ।
सोमयज्ञमहापुण्यम् ह्येकबिल्वम् शिवार्पणम् ॥४॥
दन्तिकोटिसहस्राणि अश्वमेधशतानि च ।
कोटिकन्यामहादानम् ह्येकबिल्वम् शिवार्पणम् ॥५॥
लक्ष्म्याःस्तनत उत्पन्नं महादेवस्य च प्रियम् ।
बिल्ववृक्षं प्रयच्छामि ह्येकबिल्वम् शिवार्पणम् ॥६॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारम् ह्येकबिल्वम् शिवार्पणम् ॥७॥
मूलतो ब्रह्मरूपाय मध्यतो विष्णुरूपिणे ।
अग्रतः शिवरूपाय ह्येकबिल्वम् शिवार्पणम् ॥८॥
बिल्वाष्टकमिदं पुण्यं यः पठेच्छिवसन्निधौ ।
सर्वपापविनिर्मुक्तः शिवलोकमवाप्नुयात् ॥९॥
इति बिल्वाष्टकं संपूर्णम् ॥
About Writer
वेबदुनिया धर्म टीम
वेबदुनिया धर्म टीम विविध धर्मांतील सण-उत्सव, परंपरा आणि अध्यात्मावर आधारित सखोल माहिती वाचकांपर्यंत पोहोचवते. दैनंदिन पंचांग, राशीभविष्य आणि तीर्थक्षेत्रांचा इतिहास रंजक पद्धतीने मांडून लोकांच्या धार्मिक व आध्यात्मिक जिज्ञासेचे समाधान करणे, हे या टीमचे मुख्य काम असते.....
आणखी वाचा