rashifal-2026

संकष्टनाशनविष्णुस्तोत्रम्

Webdunia
बुधवार, 6 नोव्हेंबर 2024 (11:41 IST)
संकष्टनाशनविष्णुस्तोत्रम् 
नारद उवाच-
 
पुनर्दैत्यान् समायातान् दृष्ट्वा देवा सवासवाः ।
भयात्प्रकंपिताः सर्वे विष्णुं स्तोतुं प्रचक्रमुः ॥१॥
 
देवा ऊचुः-
 
नमो मत्स्यकूर्मादिनानास्वरूपै-
स्सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादि सर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥२॥
 
रमावल्लभायाऽसुराणां निहन्त्रे
भुजंगारियानाय पीताम्बराय ।
मखादि क्रिया पाककर्त्रे विकर्त्रे
शरण्याय तस्मै नतास्मो नतास्म ॥३॥
 
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलये विष्णवे ते ।
भुजंगेशतल्पेशयानायाऽर्कचन्द्र-
द्विनेत्राय तस्मै नतास्मो नतास्म ॥४॥
 
संष्टनाशनं नाम स्तोत्रमेतत्पठेन्नरः ।
स कदाचित् न संकष्टैः पीड्यते कृपया हरेः ॥५॥
 
विष्णोः प्रातःस्मरणस्तोत्रम्
प्रातः स्मरामि फणिराजतनौ शयानं
नागामरासुरनरादिजगन्निदानम् ।
वेदैः सहागमगणैरुपगीयमानं
कान्तारकेतनवतां परमं निधानम् ॥१॥
 
प्रातर्भजामि भवसागरवारिपारं
देवर्षिसिद्धनिवहैर्विहितोपहारम् ।
संतृप्तदानवकदम्बमदापहारं
सौन्दर्यराशि जलराशिसुताविहारम् ॥२॥
 
प्रातर्नमामि शरदम्बरकान्तिकान्तं
पादारविन्दमकरन्दजुषां भवान्तम् ।
नानावतारहृतभूमिभरं कृतान्तं
पाथोजकम्बुरथपादकरं प्रशान्तम् ॥३॥
 
श्लोकत्रयमिदं पुण्यं ब्रह्मानन्देनकीर्तितम् ।
यः पठेत्प्रातरुत्थाय सर्वपापैः प्रमुच्यते ॥४॥
 
**********************
सङ्कटनाशविष्णुस्तोत्रम् 
नमो मत्स्यकूर्मादिनानास्वरूपैः
सदा भक्तकार्योद्यतायार्तिहन्त्रे ।
विधात्रादिसर्गस्थितिध्वंसकर्त्रे
गदाशंखपद्मारिहस्ताय तेऽस्तु ॥१॥
 
रमावल्लभायाऽसुराणां निहर्त्रे
भुजङ्गारियानाय पीताम्बराय ।
मखादिक्रियापाककर्त्रेऽघहर्त्रे
शरण्याय तस्मै नताः स्मॊ नताः स्मः ॥२॥
 
नमो दैत्यसन्तापितामर्त्यदुःखा-
चलध्वंसदंभोलयेविष्णवे ते ।
भुजङ्गेशतल्पेशयायार्कचन्द्र-
द्विनेत्राय तस्मै नताः स्मॊ नताः स्मः ॥३॥
 
सङ्कटनाशनं नाम स्तॊत्रमेतत् पठेन्नरः ।
स कदाचिन्न सङ्कष्टैः पीड्यते कृपया हरेः ॥४॥
 
**********************
श्री विष्णुभुजङ्गप्रयातस्तोत्रम्
चिदंशं विभुं निर्मलं निर्विकल्पम्
निरीहं निराकारमोङ्कारवेद्यम् ।
गुणातीतमव्यक्तमेकं तुरीयम्
परं ब्रह्म यं वेद तस्मै नमस्ते ॥१॥
 
विशुद्धं शिवं शान्तमाद्यन्तशून्यम्
जगज्जीवनं ज्यॊतिरानन्दरूपम् ।
अदिग्देशकालव्यवच्छेदनीयम्
त्रयी वक्ति यं वेद तस्मै नमस्ते ॥२॥
 
महायोगपीठे परिभ्राजमाने
धरण्यादितत्वात्मके शक्तियुक्ते ।
गुणाहस्करे वह्निबिम्बार्कमध्ये
समासीनमोकर्णिकेऽष्टाक्षराब्जे ॥३॥
 
समानोदितानेकसूर्येन्दुकोटि-
प्रभापूरतुल्यद्युतिं दुर्निरीक्ष्यम् ।
न शीतं न चोष्णं सुवर्णावभातम्
प्रसन्नं सदानन्दसंवित्स्वरूपम् ॥४॥
 
सुनासापुटं सुन्दरभ्रूललाटम्
किरीटोचिताकुञ्चितस्निग्धकेशम् ।
स्फुरत्पुण्डरीकाभिरामायताक्षम्
समुत्फुल्लरत्नप्रसूनावतंसम् ॥५॥
 
स्फुरत्कुण्डलामृष्टगण्डस्थलान्तम्
जपारागचोराधरं चारुहासम् ।
कलिव्याकुलामोदिमन्दारमालम्
महोरस्फुरत्कौस्तुभोदारहारम् ॥६॥
 
सुरत्नाङ्गदैरन्वितं बाहुदण्डैः
चतुर्भिश्चलत्कङ्कणालंकृताग्रैः ।
उदारोदरालंकृतं पीतवस्त्रम्
पदद्वन्द्वनिर्धूतपद्माभिरामम् ॥७॥
 
स्वभक्तेषु सन्दर्शिताकारमेवम्
सदा भावयन् सन्निरुद्धेन्द्रियाश्वः ।
दुरापं नरो याति संसारपारम्
परस्मै तमोभ्योऽपि तस्मै नमस्ते ॥८॥
 
श्रिया शातकुंभद्युतिस्निग्धकान्त्या
धरण्या च दूर्वादलश्यामलाङ्ग्या ।
कलत्रद्वयेनामुना तोषिताय
त्रिलॊकीगृहस्थाय विष्णो नमस्ते ॥९॥
 
शरीरं कलत्रं सुतं बन्धुवर्गम्
वयस्यं धनं सद्म भृत्यं भुवं च ।
समस्तं परित्यज्य हा कष्टमेको
गमिष्यामि दुःखेन दूरं किलाहम् ॥१०॥
 
जरेयं पिशाचीव हा जीवितो मे
मृजामस्थिरक्तं च मांसं बलं च ।
अहो देव सीदामि दीनानुकम्पिन्
किमद्धापि हन्त त्वयोद्भासितव्यम् ॥११॥
 
कफव्याहतोष्णोल्बणश्वासवेग-
व्यथाविस्फुरत्सर्वमर्मास्थिबन्धाम् ।
विचिन्त्याहमन्त्यामसह्यामवस्थाम्
बिभेमि प्रबो किं करोमि प्रसीद ॥१२॥
 
लपन्नच्युतानन्त गोविन्द विष्णो
मुरारे हरे नाथ नारायणेति ।
यथाऽनुस्मरिष्यामि भक्त्या भवन्तम्
तथा मे दयाशील देव प्रसीद ॥१३॥
 
नमो विष्णवे वासुदेवाय तुभ्यम्
न,ओ नारसिंहस्वरूपाय तुभ्यम् ।
नमः कालरूपाय संहारकर्त्र्यै
नमस्ते वराहाय भूयॊ नमस्ते ॥१४॥
 
नमस्ते जगन्नाथ विष्णो नमस्ते
नमस्ते गदाचक्रपाणॆ नमस्ते ।
नमस्ते प्रपन्नार्तिहारिन् नमस्ते
समस्तापराधं क्षमस्वाखिलेश ॥१५॥
 
मुखे मन्दहासं नखे चन्द्रभासम्
करॆ चारुचक्रं सुरेशादिवन्द्यम् ।
भुजङ्गे शयानं भजे पद्मनाभम्
हरेरन्यदैवं न मन्ये न मन्ये ॥१६॥
 
भुजन्ङ्गप्रयातं पठॆद्यस्तु भक्त्या
समाधाय चित्ते भवन्तं मुरारे ।
स मोहं विहायाशु युष्मत्प्रसादात्
समाश्रित्य यॊगं व्रजत्यच्युतं त्वाम् ॥१७॥

संबंधित माहिती

सर्व पहा

नवीन

Dhulandi 2026: धुळेंडीवर काय करावे आणि काय करू नये, जाणून घ्या खास गोष्टी

Dhulivandan 2026 wishes in marathi धुलीवंदनाच्या शुभेच्छा संदेश मराठी

ग्रहणबद्दल नियम व माहिती

काळूबाईची आरती Kalubai Aarti

Chandra Grahan Mantra Jaap In marathi चंद्रग्रहणाच्या वेळी कोणता मंत्र जपावा?

सर्व पहा

नक्की वाचा

Rangpanchami 2026 Wishes In Marathi रंगपंचमीच्या हार्दिक शुभेच्छा

इराण-इस्रायल युद्ध: भविष्य मालिका यांच्या भविष्यवाण्या खऱ्या ठरण्याची वेळ आली का?

Women's Day 2026 Speech in Marathi महिला दिन भाषण मराठी

कोपर आणि काळ्या गुडघ्यासाठी घरगुती उपाय

शरीरासाठी एकाच वेळी किती अन्न खावे? अति खाण्याचे 'हे' गंभीर दुष्परिणाम जाणून घ्या

पुढील लेख
Show comments