Dharma Sangrah

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

Shri Gangadhar Suprabhatam श्री गङ्गाधर सुप्रभातम्

श्री गङ्गाधर सुप्रभातम् Shri Gangadhar Suprabhatam Marathi
, सोमवार, 16 फेब्रुवारी 2026 (07:55 IST)
श्री गङ्गाधर सुप्रभातम्
श्रीहैमवतीसमेतश्रीगङ्गाधरेश्वरस्वामिने नमः ।
 
अगजाननपद्मार्कं गजाननमहर्निशम् ।
 अनेकदन्तं भक्तानामेकदन्तमुपास्महे ॥ १ ॥
 
प्रातः स्मरामि परमेश्वरवक्त्रपद्मं 
फालाक्षकीलपरिशोषितपञ्चबाणम् । 
भस्मत्रिपुण्ड्ररचितं फणिकुण्डलास्यं 
कुन्देन्दुचन्दनसुधारसमन्दहासम् ॥ २ ॥
 
प्रातः स्मरामि परमेश्वरबाहुदण्डा- 
न्खट्वाङ्गशूलहरिणासुपिनाकयुक्तान् । 
गौरीकपोलकुचरञ्जितपत्रलेखा-
 न्सौवर्णकङ्कणमणिद्युतिभासमानान् ॥ ३ ॥
 
प्रातः स्मरामि परमेश्वरपादपद्मं 
पद्मोद्भवामरमुनीन्द्रमनोनिवासम् । 
पद्माक्षनेत्रसरसीरुहपूजनीयं 
पद्माङ्कुशध्वजसरोरुहलाञ्छनाढ्यम् ॥ ४ ॥
 
प्रातःस्मरामि परमेश्वरपुण्यमूर्ति
 कर्पूरकुन्दधवलं गजचर्मचैलम् ।
 गङ्गाधरं कनकबद्धविभासमानं 
कात्यायनीतनुविभूषितवामभागम् ॥ ५ ॥
 
प्रातः स्मरामि परमेश्वरपुण्यनाम 
श्रेयः प्रदं सकलदुःखविनाशहेतुम् ।
 संसारतापशमनं कलिकल्मषघ्नं 
गोकोटिदानफलदं स्मरणेन पुंसाम् ॥ ६ ॥ 
 

Share this Story:

Follow Webdunia marathi

पुढील लेख

Maha Shivaratri 2026: महाशिवरात्रीला काय करावे आणि काय करू नये?