Festival Posters

Select Your Language

Notifications

webdunia
webdunia
webdunia
webdunia

श्री शरभकल्पे शरभेश्वर श‍ृणु देवि महागुह्यं परमं पुण्यविवर्धन स्तोत्रम् ने शिवस्तुती करा

श्रीशिव उवाच -
श‍ृणु देवि महागुह्यं परमं पुण्यविवर्धनम् ।
शरभेशाष्टकं मन्त्रं वक्ष्यामि तव तत्त्वतः ॥ १॥
 
ऋषिन्यासादिकं यत्तत्सर्वपूर्ववदाचरेत् ।
ध्यानभेदं विशेषेण वक्ष्याम्यहमतः शिवे ॥ २॥
 
ध्यानम् -
ज्वलनकुटिलकेशं सूर्यचन्द्राग्निनेत्रं   
 निशिततरनखाग्रोद्धूतहेमाभदेहम् ।
शरभमथ मुनीन्द्रैः सेव्यमानं सिताङ्गं 
   प्रणतभयविनाशं भावयेत्पक्षिराजम् ॥ ३॥
 
अथ स्तोत्रम् -
देवादिदेवाय जगन्मयाय शिवाय नालीकनिभाननाय ।
शर्वाय भीमाय शराधिपाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ४॥
 
हराय भीमाय हरिप्रियाय भवाय शान्ताय परात्पराय ।
मृडाय रुद्राय विलोचनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ५॥
 
शीतांशुचूडाय दिगम्बराय सृष्टिस्थितिध्वंसनकारणाय ।
जटाकलापाय जितेन्द्रियाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ६॥
 
कलङ्ककण्ठाय भवान्तकाय कपालशूलात्तकराम्बुजाय ।
भुजङ्गभूषाय पुरान्तकाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ७॥
 
शमादिषट्काय यमान्तकाय यमादियोगाष्टकसिद्धिदाय ।
उमाधिनाथाय पुरातनाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ८॥
 
घृणादिपाशाष्टकवर्जिताय खिलीकृतास्मत्पथि पूर्वगाय ।
गुणादिहीनाय गुणत्रयाय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ९॥
 
कालाय वेदामृतकन्दलाय कल्याणकौतूहलकारणाय ।
स्थूलाय सूक्ष्माय स्वरूपगाय नमोऽस्तु तुस्तु तुभ्यं शरभेश्वराय ॥ १०॥
 
पञ्चाननायानिलभास्कराय पञ्चाशदर्णाद्यपराक्षयाय ।
पञ्चाक्षरेशाय जगद्धिताय नमोऽस्तु तुभ्यं शरभेश्वराय ॥ ११॥
 
नीलकण्ठाय रुद्राय शिवाय शशिमौलिने ।
भवाय भवनाशाय पक्षिराजाय ते नमः ॥ १२॥
 
परात्पराय घोराय शम्भवे परमात्मने ।
शर्वाय निर्मलाङ्गाय सालुवाय नमो नमः ॥ १३॥
 
गङ्गाधराय साम्बाय परमानन्दतेजसे ।
सर्वेश्वराय शान्ताय शरभाय नमो नमः ॥ १४॥
 
वरदाय वराङ्गाय वामदेवाय शूलिने ।
गौरीशाय गिरीशाय गिरिजापतये नमः ॥ १५॥
 
कनकजठरकोद्यद्रक्तपानोन्मदेन   
 सकलभुवन पीडानारसिंहेन जाता ।
 झडिति सकरुणं यः सर्वदेवैः स्तुतस्तां  
 अहरदभयदायी सालुवः पक्षिराजः ॥ १६॥
 
दंष्ट्रानखोग्रः शरभः सपक्षः चतुर्विधश्चाष्टपदः चतुर्भुजः ।
किरीटगङ्गेन्दुधरो नृसिंहक्षोभापहोऽस्मद्रिपुहास्तु शम्भुः ॥ १७॥
 
शरभेशस्तवं नित्यं यः पठेत् शिवसन्निधौ ।
इह भुक्त्वाऽखिलान्भोगानन्ते ब्रह्मपुरं व्रजेत् ।
 
इति श्री शरभकल्पे शरभेश्वर स्तोत्रम् सम्पूर्णम् |

Share this Story:

Follow Webdunia marathi

पुढील लेख

Surya Dev Mantra: सूर्याच्या 7 शक्तिशाली मंत्र जपल्याने सर्व इच्छा पूर्ण होतात, रविवारी कोणत्याही एका मंत्राचा जप करा