Marathi Biodata Maker

श्री दुर्गा सप्तशती पाठ अध्याय 5

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:02 IST)
पञ्चमोऽध्याय:
उत्तरचरित्र
ध्यानम्
ॐ घण्टाशूलहलानि शङ्‌खमुसले चक्रं धनु: सायकं
हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशुतुल्यप्रभाम् ।
गौरीदेहसमुद्‌भवां त्रिजगतामाधारभूतां महा-
पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम् ॥
'ॐ क्लीं' ऋषिरुवाच ॥१॥
पुरा शुम्भनिशुम्भाभ्यामसुराभ्यां शचीपते: ।
त्रैलोक्यं यज्ञभागाश्‍च ह्रता मदबलाश्रयात् ॥२॥
तावेव सूर्यतां तद्वदधिकारं तथैन्दवम् ।
कौबेरमथ याम्यं च चक्राते वरुणस्य च ॥३॥
तावेव पवनर्द्धिं च चक्रतुर्वह्‌निकर्म च ।
ततो देवा विनिर्धूता भ्रष्टराज्या: पराजिता: ॥४॥
ह्रताधिकारास्त्रिदशास्ताभ्यां सर्वे निराकृता :।
महासुराभ्यां तां देवीं संस्मरन्त्यपराजिताम् ॥५॥
तयास्माकं वरो दत्ते यथाऽऽपत्सु स्मृताखिला: ।
भवतां नाशयिष्यामि तत्क्षणात्परमापद: ॥६॥
इति कृत्वा मतिं देवा हिमवन्तं नगेश्‍वरम् ।
जग्मुस्तत्र ततो देवीं विष्णुमायां प्रतुष्टुवु: ॥७॥
देवा ऊचु: ॥८॥
नमो दैव्यै महादेव्यै शिवायै सततं नम: ।
नम: प्रकृत्यै भद्रायै नियता: प्रणता: स्म ताम् ॥९॥
रौद्रायै नमो नित्यायै गौर्ये धात्र्यै नमो नम: ।
ज्योत्स्नायै चेन्दुरूपिण्यै सुखायै सततं नम: ॥१०॥
कल्याण्यै प्रणतां वृद्धयै सिद्धयै कुर्मो नमो नम: ।
नैऋत्यै भूभृतां लक्ष्म्यै शर्वाण्ये ते नमो नम: ॥११॥
दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ।
ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नम: ॥१२॥
अतिसौम्यातिरौद्रायै नतास्तस्यै नमो नम: ।
नमो जगत्प्रतिष्ठायै देव्यै कृत्यै नमो नम: ॥१३॥
या देवी सर्वभूतेषु विष्णुमायेति शब्दिता ।
नमस्तस्यै ॥१४॥ नमस्तस्यै ॥१५॥
नमस्तस्यै नमो नम: ॥१६॥
या देवी सर्वभूतेषु चेतनेत्यभिधीयते ।
नमस्तस्यै ॥१७॥ नमस्तस्यै ॥१८॥
नमस्तस्यै नमो नम: ॥१९॥
या देवी सर्वभूतेषु बुद्धिरूपेण संस्थिता ।
नमस्तस्यै ॥२०॥ नमस्तस्यै ॥२१॥
नमस्तस्यै नमो नम: ॥२२॥
या देवी सर्वभूतेषु निद्रारूपेण संस्थिता ।
नमस्तस्यै ॥२३॥ नमस्तस्यै ॥२४॥
नमस्तस्यै नमो नम: ॥२५॥
या देवी सर्वभूतेषु क्षुधारूपेण संस्थिता ।
नमस्तस्यै ॥२६॥ नमस्तस्यै ॥२७॥
नमस्तस्यै नमो नम: ॥२८॥
या देवी सर्वभूतेषुच्छायारूपेण संस्थिता ॥
नमस्तस्यै ॥२९॥ नमस्तस्यै ॥३०॥
नमस्तस्यै नमो नम: ॥३१॥
या देवी सर्वभूतेषु शक्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥३२॥ नमस्तस्यै ॥३३॥
नमस्तस्यै नमो नम: ॥३४॥
या देवी सर्वभूतेषु तृष्णारूपेण संस्थिता ॥
नमस्तस्यै ॥३५॥ नमस्तस्यै ॥३६॥
नमस्तस्यै नमो नम: ॥३७॥
या देवी सर्वभूतेषु क्षान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥३८॥ नमस्तस्यै ॥३९॥
नमस्तस्यै नमो नम: ॥४०॥
या देवी सर्वभूतेषु जातिरूपेण संस्थिता ॥
नमस्तस्यै ॥४१॥ नमस्तस्यै ॥४२॥
नमस्तस्यै नमो नम: ॥४३॥
या देवी सर्वभूतेषु लज्जारूपेण संस्थिता ॥
नमस्तस्यै ॥४४॥ नमस्तस्यै ॥४५॥
नमस्तस्यै नमो नम: ॥४६॥
या देवी सर्वभूतेषु शान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥४७॥ नमस्तस्यै ॥४८॥
नमस्तस्यै नमो नम: ॥४९॥
या देवी सर्वभूतेषु श्रद्धारूपेण संस्थिता ॥
नमस्तस्यै ॥५०॥ नमस्तस्यै ॥५१॥
नमस्तस्यै नमो नम: ॥५२॥
या देवी सर्वभूतेषु कान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥५३॥ नमस्तस्यै ॥५४॥
नमस्तस्यै नमो नम: ॥५५॥
या देवी सर्वभूतेषु लक्ष्मीरूपेण संस्थिता ॥
नमस्तस्यै ॥५६॥ नमस्तस्यै ॥५७॥
नमस्तस्यै नमो नम: ॥५८॥
या देवी सर्वभूतेषु वृत्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥५९॥ नमस्तस्यै ॥६०॥
नमस्तस्यै नमो नम: ॥६१॥
या देवी सर्वभूतेषु स्मृतिरूपेण संस्थिता ॥
नमस्तस्यै ॥६२॥ नमस्तस्यै ॥६३॥
नमस्तस्यै नमो नम: ॥६४॥
या देवी सर्वभूतेषु दयारूपेण संस्थिता ॥
नमस्तस्यै ॥६५॥ नमस्तस्यै ॥६६॥
नमस्तस्यै नमो नम: ॥६७॥
या देवी सर्वभूतेषु तुष्टिरूपेण संस्थिता ॥
नमस्तस्यै ॥६८॥ नमस्तस्यै ॥६९॥
नमस्तस्यै नमो नम: ॥७०॥
या देवी सर्वभूतेषु मातृरूपेण संस्थिता ॥
नमस्तस्यै ॥७२॥ नमस्तस्यै ॥७२॥
नमस्तस्यै नमो नम: ॥७३॥
या देवी सर्वभूतेषु भ्रान्तिरूपेण संस्थिता ॥
नमस्तस्यै ॥७४॥ नमस्तस्यै ॥७५॥
नमस्तस्यै नमो नम: ॥७६॥
इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषु या ।
भूतेषु सततं तस्यै व्याप्तिदैव्ये नमो नम: ॥७७॥
चितिरूपेण या कृत्स्नमेतद् व्याप्य स्थिता जगत् ।
नमस्तस्यै ॥७८॥ नमस्तस्यै ॥७९॥
नमस्तस्यै नमो नम: ॥८०॥
स्तुता सुरै: पूर्वमभीष्टसंश्रया
त्तथा सुरेन्द्रण दिनेषु सेविता ।
करोतु सा न: शुभहेतुरीश्‍वरी
शुभानि भद्राण्यभिहन्तु चापद: ॥८१॥
या साम्प्रतं चोद्धतदैत्यतापितै-
रस्माभिरीशा च सुरैर्नमस्यते ।
या च स्मृता तत्क्षणमेव हन्ति न:
सर्वापदो भक्तिविनम्रमूर्तिभि: ॥८२॥
ऋषिरुवाच ॥८३॥
एवं स्तवादियुक्तानां देवानां तत्र पार्वती ।
स्नातुमभ्याययौ तोये जान्हव्या नृपनन्दन ॥८४॥
साब्रवीत्तान् सुरान् सुभ्रूर्भवद्‌भि: स्तूयतेऽत्र का ।
शरीरकोशतश्‍चास्या: समुद्‌भूताब्रवीच्छिवा ॥८५॥
स्तोत्रं ममैतत् क्रियते शुम्भदैत्यनिराकृतै: ।
देवै: समेतै: समरे निशुम्भेन पराजितै: ॥८६॥
शरीराकोशाद्यत्तस्या: पार्वत्या नि:सृताम्बिका ।
कौशिकीति समस्तेषु ततो लोकेषु गीयते ॥८७॥
तस्यां विनिर्गतायां तु कृष्णाभूत्सापि पार्वती ।
कालिकेति समाख्याता हिमाचलकृताश्रया ॥८८॥
ततोऽम्बिकां परं रूपं बिभ्राणां सुमनोहरम् ।
ददर्श चण्डो मुण्डश्‍च भृत्यौ शुम्भनिशुम्भयो: ॥८९॥
ताभ्यां शुम्भाय चाख्याता अतीव सुमनोहरा ।
काप्यास्ते स्त्री महाराज भासयन्ती हिमाचलम् ॥९०॥
नैव तादृक् क्वचिद्रूपं दृष्टं केनचिदुत्तमम् ।
ज्ञायतां काप्यसौ देवी गृह्यतां चासुरेश्‍वर ॥९१॥
स्त्रीरत्‍नमतिचार्वङ्‌गी द्योतयन्ती दिशास्त्विषा ।
सा तु तिष्ठति दैत्येन्द्र तां भवान् द्रष्टुमर्हति ॥९२॥
यानि रत्‍नानि मणयो गजाश्वादीनि वै प्रभो ।
त्रैलोक्ये तु समस्तानि साम्प्रतं भान्ति ते गृहे ॥९३॥
ऎरावत: समानीतो गजरत्‍नं पुरन्दरात् ।
परिजाततरुश्‍चायं तथैवोच्चै:श्रवा हय: ॥९४॥
विमानं हंससंयुक्‍तमेतक्तिष्ठति तेऽङ्‌गणे ।
रत्‍नभूतमिहानीतं यदासीद्वेधसोऽद्‌भुतम् ॥९५॥
निधिरेष महापद्‌म: समानीतो धनेश्‍वरात् ।
किञ्जिल्किनीं ददौ चाब्धिर्मालामम्लानपङ्‌कजाम् ॥९६॥
छत्रं ते वारुणं गेहे काञ्चनस्रावि तिष्ठति ।
तथायं स्यन्दनवरो य: पुराऽऽसीत्प्रजापते: ॥९७॥
मृत्योरुत्क्रान्तिदा नाम शक्तिरीश त्वया ह्रता ।
पाश: सलिलराजस्य भ्रातुस्तव परिग्रहे ॥९८॥
निशुम्भस्याब्धिजाताश्‍च समस्ता रत्‍नजातय: ।
वह्‌‍निरपि ददौ तुभ्यमग्निशौचे च वाससी ॥९९॥
एवं दैत्येन्द्र रत्‍नानि समस्तान्याह्रतानि ते ।
स्त्रीरत्‍नमेषा कल्याणी त्वया कस्मान्न गृह्यते ॥१००॥
ऋषिरुवाच ॥१०१॥
निशम्येति वच: शुम्भ: स तदा चण्डमुण्डयो: ।
प्रेषयामास सुग्रीवं दूतं देव्या महासुरम् ॥१०२॥
इति चेति च वक्‍तव्या सा गत्व वचनान्मम ।
यथा चाभ्येति सम्प्रीत्या तथा कार्यं त्वया लघु ॥१०३॥
स तत्र गत्वा यत्रास्ते शैलोद्देशेऽतिशोभने ।
सा देवी तां तत: प्राह श्‍लक्ष्णं मधुरया गिरा ॥१०४॥
दूत उवाच ॥१०५॥
देवि दैत्येश्‍वर: शुम्भस्त्रैलोक्ये परमेश्‍वर: ।
दूतोऽह प्रेषितस्तेन त्वत्सकाशमिहागत: ॥१०६॥
अव्याहताज्ञ: सर्वासु य: सदा देवयोनिषु ।
निर्जिताखिलदैत्यारि: स यदाह श्रृणुष्व तत् ॥१०७॥
मम त्रैलोक्यमखिलं मम देव वशानुगा: ।
यज्ञभागानहं सर्वानुपाश्‍नामि पृथक् पृथक् ॥१०८॥
त्रैलोक्ये वररत्‍नानि मम वश्‍यान्यशेषत: ।
तथैव गजरत्‍नं च ह्रत्वा देवेन्द्रवाहनम् ॥१०९॥
क्षीरोदमथनोद्‌भूतमश्वरत्‍नं ममामरै: ।
उच्चै:श्रवससंज्ञं तत्प्रणिपत्य समर्पितम् ॥११०॥
यानि चान्यानि देवेषु गन्धर्वेषूरगेषु च ।
रत्‍नभूतानि भूतानि तानि मय्येव शोभने ॥१११॥
स्त्रीरत्‍नभूतां त्वां देवि लोके मन्यामहे वयम् ।
सा त्वमस्मानुपागच्छ यतो रत्‍नभुजो वयम् ॥११२॥
मां वा ममानुजं वापि निशुम्भमुरुविक्रमम् ।
भज त्वं च चलापाङ्‌गि रत्‍नभूतासि वै यत: ॥११३॥
परमैश्‍वर्यमतुलं प्राप्स्यसे मत्परिग्रहात् ।
एतद् बुद्ध्या समालोच्य मत्परिग्रहतां व्रज ॥११४॥
ऋषिरुवाच ॥११५॥
इत्युक्‍ता सा तदा देवी गम्भीरान्त:स्मिता जगौ ।
दुर्गा भगवती भद्रा ययेदं धार्यते जगत् ॥११६॥
देव्युवाच ॥११७॥
सत्यमुक्‍तं त्वया नात्र मिथ्या किंचित्त्वयोदितम् ।
त्रैलोक्याधिपति: शुम्भो निशुम्भश्‍चापि तादृश: ॥११८॥
किं त्वत्र यत्प्रतिज्ञातं मिथ्या तत्क्रियते कथम् ।
श्रूयतामल्पबुद्धित्वात्प्रतिज्ञा या कृता पुरा ॥११९॥
यो मां जयति संग्रामे यो मे दर्पं व्यपोहति ।
यो मे प्रतिबलो लोके स मे भर्ता भविष्यति ॥१२०॥
तदागच्छतु शुम्भोऽत्र निशुम्भो वा महासुर: ।
मां जित्वा किं चिरेणात्र पाणिं गृहणातु मे लघु ॥१२१॥
दूत उवाच ॥१२२॥
अवलिप्तासि मैवं त्वं देवि ब्रूहि ममाग्रत: ।
त्रैलोक्ये क: पुमांस्तिष्ठेदग्रे शुम्भनिशुम्भयो: ॥१२३॥
अन्येषामपि दैत्याना सर्वे देवा न वै युधि ।
तिष्ठन्ति सम्मुखे देवि किं पुन: स्त्री त्वमेकिका ॥१२४॥
इन्द्राद्या: सकला देवास्तस्थुर्येषां न संयुगे ।
शुम्भादीनां कथं तेषां स्त्री प्रयास्यसि सम्मुखम् ॥१२५॥
सा त्वं गच्छ मयैवोक्‍ता पार्श्‍वं शुम्भनिशुम्भयो: ।
केशाकर्षणनिर्धूतगौरवा मा गमिष्यसि ॥१२६॥
देव्युवाच ॥१२७॥
एवमेतद् बली शुम्भो निशुम्भश्‍चातिवीर्यवान् ।
किं करोमि प्रतिज्ञा मे यदनालोचिता पुरा ॥१२८॥
स त्वं गच्छ मयोक्‍तं ते यदेतत्सर्वमादृत: ।
तदाचक्ष्वासुरेन्द्राय स च युक्‍तं करोतु तत् ॥ॐ॥१२९॥
इति श्रीमार्कण्डेयपुराणे सावर्णिके मन्वन्तरे देवीमाहात्मये
देव्या दूतसंवादो नाम पच्चमोऽध्याय:॥५॥
उवाच ९, त्रिपान्मन्त्रा:६६, श्‍लोका: ५४,
एवम् १२९. एव,मादित: ३८८ ॥
- श्री ललितागौरी विजयते -

संबंधित माहिती

सर्व पहा

नवीन

Amalaki Ekadashi 2026: आमलकी एकादशीचे व्रत कधी पाळले जाते आणि त्याचे महत्त्व काय?

Ramadan 2026 Marathi Wishes रमजान मुबारक खास शुभेच्छा मराठीत

शिवजयंतीच्या निमित्ताने पारंपारिक महाराष्ट्रीयन पदार्थ नक्की करून पहा; जे महाराजांचे देखील प्रिय आहे

Shiv Jayanti 2026 Slogan in Marathi छत्रपती शिवाजी महाराज घोषवाक्य मराठी

छत्रपती शिवाजी महाराजांची जन्मभूमी शिवनेरी किल्ला

सर्व पहा

नक्की वाचा

Shiv Jayanti 2026 Slogan in Marathi छत्रपती शिवाजी महाराज घोषवाक्य मराठी

Royal Baby Names मुलींसाठी छत्रपती शिवाजी महाराजांच्या नावावरून प्रेरित आधुनिक आणि अर्थपूर्ण नावे

Ramadan 2026 रमजान मध्ये कधीपासून? तारखा, महत्त्व आणि रोजाचे नियम जाणून घ्या

Mangal gochar 2026: कुंभ राशीत मंगळाचा प्रवेश, या राशींचे उजळणार नशीब; तुमच्या राशीवर काय होणार परिणाम?

किडनीच्या रुग्णांनी या भाज्याचे सेवन करू नये, समस्या वाढेल

पुढील लेख
Show comments