Marathi Biodata Maker

श्री दुर्गा सप्तशती पाठ अध्याय 9

Webdunia
मंगळवार, 12 ऑक्टोबर 2021 (23:09 IST)
नवमोऽध्याय:
ध्यानम्
ॐ बन्धूककाञ्चननिभं रुचिराक्षमालां
पाशाङ्कुशौ च वरदां निजबाहुदण्डै: ।
बिभ्राणमिन्दुशकलाभरणं त्रिनेत्र-
मर्धाम्बिकेशमनिशं वपुराश्रयामि  ॥
'ॐ' राजोवाच ॥१॥
विचित्रमिदमाख्यातं भगवन् भवता मम ।
देव्याश्र्चरितमाहात्म्यं रक्तबीजवधाश्रितम् ॥२॥
भूयश्‍चेच्छाम्यहं श्रोतुं रक्तबीजे निपातिते ।
चकार शुम्भो यत्कर्म निशुम्भश्‍चातिकोपन: ॥३॥
ऋषिरुवाच ॥४॥
चकार कोपमतुलं रक्तबीजे निपातिते ।
शुम्भासुरो निशुम्भश्‍च हतेष्वन्येषु चाहवे ॥५॥
हन्यमानं महासैन्यं विलोक्यामर्षमुद्वहन् ।
अभ्यधावन्निशुम्भोऽथ मुख्ययासुरसेनया ॥६॥
तस्याग्रतस्तथा पृष्ठे पार्श्‍वयोश्र्च महासुरा: ।
संदष्टौष्ठपुटा: क्रुद्धा हन्तुं देवीमुपाययु: ॥७॥
आजगाम महावीर्य: शुम्भोऽपि स्वबलैर्वृत: ।
निहन्तुं चण्डिका कोपात्कृत्वा युद्धं तु मातृभि: ॥८॥
ततो युद्धमतीवासीद् देव्या शुम्भनिशुम्भयो: ।
शरवर्षमतीवोग्रं मेघयोरिव वर्षतो: ॥९॥
चिच्छेदास्ताञ्छरांस्ताभ्यां चण्डिका स्वशरोत्करै: ।
ताडयामास चाङ्‌गेषु शस्त्रौघैरसुरेश्‍वरौ ॥१०॥
निशुम्भो निशितं खड्‌गं चर्म चादाय सुप्रभम् ।
अताडयन्मूर्ध्नि सिंहं देव्या वाहनमुत्तमम् ॥११॥
ताडिते वाहने देवी क्षुरप्रेणासिमुत्तमम् ।
निशुम्भस्याशु चिच्छेद चर्म चाप्यष्टचन्द्रकम् ॥१२॥
छिन्ने चर्मणि खड्‌गे च शक्तिं चिक्षेप सोऽसुर: ।
तामप्यस्य द्विधा चक्रे चक्रेणाभिमुखागताम् ॥१३॥
कोपाध्मातो निशुम्भोऽथ शूलं जग्राह दानव: ।
आयातं मुष्टिपातेन देवी तच्चाप्यचूर्णयत् ॥१४॥
आविध्याथ गदां सोऽपि चिक्षेप चण्डिकां प्रति ।
सापि देव्या त्रिशूलेन भिन्ना भस्मत्वमागता ॥१५॥
तत: परशुहस्तं तमायान्तं दैत्यपुङ्‌गवम् ।
आहत्य देवी बाणौघैरपातयत भूतले ॥१६॥
तस्मिन्निपतिते भूमौ निशुम्भे भीमविक्रमे ।
भ्रातर्यतीव संक्रुद्ध: प्रययौ हन्तुमम्बिकाम् ॥१७॥
स रथस्थस्तथात्युच्चैर्गृहीतपरमायुधै: ।
भुजैरष्टभिरतुलैर्व्याप्याशेषं बभौ नभ: ॥१८॥
तमायान्तं समालोक्य देवी शङ्‌खमवादयत् ।
ज्याशब्दं चापि धनुषश्‍चकारातीव दु:सहम् ॥१९॥
पूरयामास ककुभो निजघण्टास्वनेन च ।
समस्तदैत्यसैन्यानां तेजोवधविधायिना ॥२०॥
तत: सिंहो महानादैस्तयाजितेभमहामदै: ।
पूरयामास गगनं गां तथैव दिशो दश ॥२१॥
तत: काली समुत्पत्य गगनं क्ष्मामताडयत् ।
कराभ्यां तन्निनादेन प्राक्स्वनास्ते तिरोहिता: ॥२२॥
अट्टाट्टहासमशिवं शिवदूती चकार ह ।
तै: शब्दैरसुरास्त्रेसु: शुम्भ: कोपं परं ययौ ॥२३॥
दुरात्मंस्तिष्ठ तिष्ठेति व्याजहाराम्बिका यदा ।
तदा जयेत्यभिहितं देवैराकाशसंस्थितै: ॥२४॥
शुम्भेनागत्य या शक्तिर्मुक्ता ज्वालातिभीषणा ।
आयान्ती वन्हिकूटाभा सा निरस्ता महोल्कया ॥२५॥
सिंहनादेन शुम्भस्य व्याप्तं लोकत्रयान्तरम् ।
निर्घातनि:स्वनो घोरो जितवानवनीपते ॥२६॥
शुम्भमुक्ताञ्छरान्‍देवी शुम्भस्तत्प्रहिताच्छरान् ।
चिच्छेद स्वशरैरुग्रै: शतशोऽथ सहस्रश: ॥२७॥
तत: सा चण्डिका क्रुद्धा शूलेनाभिजघान तम् ।
स तदाभिहतो भूमौ मूर्च्छितो निपपात ह ॥२८॥
ततो निशुम्भ: सम्प्राप्य चेतनामात्तकार्मुक: ।
आजघान शरैर्देवीं कालीं केसरिणं तथा ॥२९॥
पुनश्‍च कृत्वा बाहूनामयुतं दनुजेश्‍वर: ।
चक्रायुधेन दितिजश्‍छादयामास चण्डिकाम् ॥३०॥
ततो भगवती क्रुद्धा दुर्गा दुर्गातिनाशिनी ।
चिच्छेद तानि चक्राणि स्वशरै: सायकांश्‍च तान् ॥३१॥
ततो निशुम्भो वेगेन गदामादाय चण्डिकाम् ।
अभ्यधावत वै हन्तुं दैत्यसेनासमावृत: ॥३२॥
तस्यापतत एवाशु गदां चिच्छेद चण्डिका ।
खड्‌गेन शितधारेण स च शूलं समाददे ॥३३॥
शूलहस्तं समायान्तं निशुम्भममरार्दनम् ।
ह्रदि विव्याध शूलेन वेगाविद्धेन चण्डिका ॥३४॥
भिन्नस्य तस्य शूलेन ह्रदयान्नि:सृतोऽपर: ।
महाबलो महावीर्यास्तिष्ठेति पुरुषो वदन् ॥३५॥
तस्य निष्क्रामतो देवी प्रहस्य स्वनवत्तत: ।
शिरश्र्चिच्छेद खड्‌‍गेन ततोऽसावपतद्‌भुवि ॥३६॥
तत: सिंहश्‍चखादोग्रं दंष्ट्राक्षुण्णशिरोधरान् ।
असुरांस्तांस्तथा काली शिवदूती तथापरान् ॥३७॥
कौमारीशक्तिनिर्भिन्ना: केचिन्नेशुर्महासुरा: ।
ब्रह्माणीमन्त्रपूतेन तोयेनान्ये निराकृता: ॥३८॥
माहेश्‍वरीत्रिशूलेन भिन्ना: पेतुस्तथापरे ।
वाराहीतुन्डघातेन केचिच्चूर्णीकृता भुवि ॥३९॥
खण्डं खण्डं च चक्रेण वैष्णव्या दानवा: कृता: ।
वज्रेण चैन्द्रीहस्ताग्रविमुक्तेन तथापरे ॥४०॥
केचिद्विनेशुरसुरा: केचिन्नष्टा महाहवात् ।
भक्षिताश्र्चापरे कालीशिवदूतीमृगाधिपै: ॥ॐ॥४१॥
इति श्रीमार्कंण्डेयपुराणे सावर्णिके मन्वन्तरे
देवीमाहात्मये
निशुम्भवधो नाम नवमोऽध्याय ॥९॥
उवाच २, श्लोका: ३९, एवं ४१,
एवमादित: ५४३ ॥

संबंधित माहिती

सर्व पहा

नवीन

सूर्यदेवाची कृपा मिळवण्यासाठी रविवारी या गोष्टी करणे टाळले पाहिजे

वट पौर्णिमा २०२६: विवाहित महिलांनी सकाळी उठल्यावर सर्वप्रथम काय करावे?

Vat Purnima 2026 Wishes in Marathi वटपौर्णिमा शुभेच्छा संदेश

Shaniwar Upay शनिवारी हे उपाय केल्याने शनिदेव प्रसन्न होतील, तुमचे भाग्य उजळेल

आरती शनिवारची-पुजेच्या प्रांतीं अभ्यंग करी

सर्व पहा

नक्की वाचा

Hanuman Chalisa Path Benefits हनुमान चालीसा पठणाचे फायदे: मानसिक शक्ती दुप्पट कशी वाढते?

बुध ग्रहाची वक्री चाल सुरू! २९ जूनपासून 'या' राशींचे भाग्य उजळणार, तर कोणाला राहावे लागेल सावध?

Belly fat yoga: पोटावरील चरबी कमी करण्यासाठी 5 उत्तम योगासने, यापैकी कोणतेही एक करून पहा

खूप थंड पाणी पिणे चांगले की वाईट? सत्य जाणून घ्या

स्टेट बँक ऑफ इंडिया मध्ये १५०० प्रोबेशनरी ऑफिसर (पीओ) पदां साठी भरती सुरु

पुढील लेख
Show comments