अहो कृतार्थाऽस्मि जगन्निवास ते पादाब्जसंलग्नरजःकणादहम् । स्पृशामि यत्पद्मजशंकरादिभिर्विमृग्यते रंधितमानसैः सदा ॥ १ ॥ अहो विचित्रं तव राम चेष्टितं मनुष्यभावेन विमोहितं जगत् । चलस्यजस्त्रं चरणादिवर्जितः संपूर्ण आनंदमयोऽतिमायिकः ॥ २ ॥ यत्पादपङकजपरागपवित्रगात्रा भागीरथी भवविरिंचिमुखान्पुनाति । साक्षात्स एव मम दृग्विषयो यदास्ते किं वर्ण्यते मम पुराकृतभागधेयम् ॥ ३ ॥ मर्त्यावतारे मनुजाकृतिं हरिं रामाभिधेयं रमणीयदेहिनम्...