Dharma Sangrah

श्रीमहादेवकृतं रामस्तोत्रम्‌

Webdunia
श्री महादेव उवाचः
नमोऽस्तु रामाय सशक्तिकाय नीलोत्पलश्यामल कोमलाय ।
किरीटहारांगदभूषणाय सिंहासनस्थाय महाप्रभाय ॥१॥
त्वमादिमध्यान्तविहीन एकः सृजस्यवस्यत्सि च लोकजातज्ञ्म्‌ ।
स्वमायया तेन ने लिप्यसे त्वं यत्स्वे सुखेऽजस्ररतोऽनवद्यः ॥२॥
लीलां विधत्से गुणसंवृतस्त्वं प्रपन्नभक्तानुविधानहेतोः ।
नानावतारैः सुरमानुषाद्यैः प्रतीयसे ज्ञानिभिरेव नित्यम्‌ ॥३॥
स्वांशेन लोकं सकलं विधाय तं बिभर्षि च त्वं त्वदधः फणीश्वरः ।
उपर्यधो भान्वनिलोडुपौषधीप्रवर्षरूपोऽवसि नैकधा जगत्‌ ॥४॥
त्वमिह देहभृतां शिखिरूपकः पचसि भक्तमशेषमजस्रम्‌ ।
पवनपंचकरूपसहायो जगदखंडमनेन बिभर्षि ॥५॥
चंद्रसूर्यशिखिमध्यगतं यत्तेज ईश चिदशेषतनूनाम्‌ ।
प्राभवत्तनुभृतामिह धैर्यं शौर्यमायुरखिलं तव सत्त्वम्‌ ॥६॥
त्वं विरिचिशिवविष्णुविभेदात्कालकर्मशशिसूर्यविभागात्‌ ।
वादिनां पृथगिवेश बिभासि ब्रह्म निश्चितमनन्यदिहैकम्‌ ॥७॥
मत्स्यादिरूपेण यथा त्वमेकः श्रुतो पुराणेषु च लोकसिद्धः ।
तथैव सर्वं सदसद्विभागस्त्वमेव नान्यद्भवतो बिभाति ॥८॥
यद्यत्सभुत्पन्नमनंतसृष्टावुत्पत्स्यते यंच भवंच यंच ।
न दृश्यते स्थावरजंगमादौ त्वया विनाऽतः परतः परस्त्वम्‌ ॥९॥
तत्वं न जानंति परात्मनस्ते जनाः समस्तास्तव माययाऽतः ।
त्वद्भक्तसेवामलमानसानां बिभाति तत्वं परमेकमैशम्‌ ॥१०॥
ब्रह्मादयस्ते न विदुःस्वरूपं चिदात्मतत्वं बहिरर्थभावः ।
ततो बुधस्त्वामिदमेव रूपं भक्त्या भजन्मुक्तिमुपैत्यदुःखः ॥११॥
अहं भवन्नामगुणैः कृतार्थो वसामि काश्यामनिशं भवान्या ।
मुमृर्षमाणस्य विमुक्तयेऽहं दिशामि मंत्रं तव रामनाम ॥१२॥
इमं स्तवं नित्यमनन्यभक्त्या श्रृणवन्ति गायन्ति लिखन्ति ये वै ।
ते सर्वसौख्यं परमं च लब्ध्वा भवत्पदं यान्तु भवत्प्रसादात्‌ ॥१३॥

॥ इति श्रीमदध्यात्मरामायणे श्रीमहादेवकृतं रामस्तोत्रं संपूर्णम्‌ ॥
सर्व पहा

नवीन

श्री वट सावित्री आरती

Vaidyanathashtakam वैद्यनाथाष्टकम् मंत्राने शंभो महादेवाची स्तुती करा

Vat Purnima 2026 Wishes in Marathi वटपौर्णिमा शुभेच्छा संदेश

वट पौर्णिमा २०२६: विवाहित महिलांनी सकाळी उठल्यावर सर्वप्रथम काय करावे?

Mahadev Aarti शंकराची आरती : लवथवती विक्राळा ब्रह्मांडी माळा

सर्व पहा

नक्की वाचा

Hanuman Chalisa Path Benefits हनुमान चालीसा पठणाचे फायदे: मानसिक शक्ती दुप्पट कशी वाढते?

बुध ग्रहाची वक्री चाल सुरू! २९ जूनपासून 'या' राशींचे भाग्य उजळणार, तर कोणाला राहावे लागेल सावध?

Belly fat yoga: पोटावरील चरबी कमी करण्यासाठी 5 उत्तम योगासने, यापैकी कोणतेही एक करून पहा

खूप थंड पाणी पिणे चांगले की वाईट? सत्य जाणून घ्या

स्टेट बँक ऑफ इंडिया मध्ये १५०० प्रोबेशनरी ऑफिसर (पीओ) पदां साठी भरती सुरु

पुढील लेख
Show comments