Select Your Language

Notifications

webdunia
webdunia
webdunia
मंगलवार, 15 अक्टूबर 2024
webdunia

शिवभारत अध्याय दुसरा

शिवभारत अध्याय दुसरा
, सोमवार, 26 ऑगस्ट 2024 (14:47 IST)
अथद्वितीयोऽध्याय आरभ्यते ॥
कवीन्द्र उवाच ॥
प्रपेदे पंचमं वर्षं शरीफस्याग्रजो यदा ।
तदा महोदारवर्मा मालवर्मा महीपतिः ॥१॥
महत्या सेनया सार्धं दधानोभ्यर्हितं धनुः ।
प्रस्थापितो निजामेन समरायेंदिरापुरम् ॥२॥
तत्रात्यर्थं युध्यमानः सबलैरभियायिभिः ।
प्रभूतैः परिधीभूतैर्हन्यमानस्समंततः ॥३॥
पदातिमत्तमातंगहयकीलालवाहिनीम् ।
प्रवर्त्यातीव महतीं तीव्रवेगां तरंगिणीम् ॥४॥
कृतांत इव संक्रुद्धः समृद्धस्स्वेन तेजसा ।
पुरोधाय प्रतिभटान् प्रययावमरावतीम् ॥५॥
वज्रपातमिवाकर्ण्य तमुदंतमुमा सती ।
पपात वाताभिहता कदलीव महीतले ॥६॥
दिनेश्वरेण विधुरा दिनश्रीरिव सा तदा ।
बतावलंबरहिता मज्जति स्म तमोंबुधौ ॥७॥
अथ विठ्ठलराजस्तां भ्रातृभार्यां तथाविधाम् ।
भर्तृशोकभराक्रांतां क्रन्दन्तीं कुररीमिव ॥८॥
समाधातुमनास्तत्र क्षरद्वाष्पेक्षणः स्वयम् ।
निजगाद महाबुद्धिर्गद्गदस्वरया गिरा ॥९॥
विध्यनित्यमिमं लोकं शोकं त्यज महाशये ।
पतिस्तव गतः स्वर्गं स्ववर्गं परिमुच्य वै ॥१०॥
एष वै प्रार्थितः पन्थाः शूराणामनिवर्तिनाम् ।
परशस्त्राभिघाताद्यन्मरणं रणमूर्धनि ॥११॥
सुधां पिपासतां सद्यः सुरलोकं यियासताम् ।
न नूनमात्मवर्गस्य प्रणयः स्वार्थदर्शिनाम् ॥१२॥
हा विहाय महासाध्वीं भवतीं बालमातरम् ।
प्रस्थितस्य परं लोकं पत्युस्ते परुषं मनः ॥१३॥
असंशयं नश्वराणि शरीराणि शरीरिणाम् ।
रक्षितान्यपि यत्नेन क्षीयन्ते ह्यायुषः क्षये ॥१४॥
बतैतदगदंकारैरुपचीर्णमनामयम् ।
मृदुचीनैस्समीचीनैः सिचयैः परिधापितम् ॥१५॥
हृद्यैर्हितावहैर्वृष्यैश्चोष्यादिभिरनेकधा ।
लघुभिस्स्निग्धमधुरैराहारैरुपचायितम् ॥१६॥
कालागुरुक्षोदलिप्तधूपवर्तिसुधूपिते ।
रम्ये हर्म्यतले दीव्यन्मणिदीधितिदीपिते ॥१७॥
शिरीषपुष्पमृदले शयनीये सुशोभने ।
शायितं नीरशिशिराशिरव्यजनवीजितम् ॥१८॥
सुन्दरीभिः शयांभोजसंवाहितपदं पुनः ।
बहूपकृतमत्त्युच्चैर्यत्नेन धृतमात्मना ॥१९॥
कृतघ्नतामिव दधद्वपुष्मन्तमये वपुः ।
नानुयाति जगत्यस्मिन् तस्मात् कश्चिन्न कस्यचित् ॥२०॥
कलत्राण्यनुकूलानि पुत्राश्च कृतलक्षणाः ।
तौ मातापितरौ तद्वद्भ्रातरः सोदरा अपि ॥२१॥
मित्राणि शत्रवश्चापि संपदो विपदोपि च ।
भवन्ति तावदेवास्य यावदस्ति कलेवरम् ॥२२॥
एष शाहूः शरीफश्च तव देवि सुतावुभौ ।
तेजस्विनौ विराजेते पुष्पवन्ताविवोदितौ ॥२३॥
आभ्यां वंशवतंसाभ्यां भविष्यत्युज्वलं यशः ।
सर्वस्मिन्नपि संसारे वीरमातुस्तवाद्भुतम् ॥२४॥
क्षीरकण्ठाविमौ वत्सौ बत त्वन्मयजीवितौ ।
मनागपि जगत्यत्र त्वां विना स्थास्यतः कथम् ॥२५॥
तस्मात्त्वं बिभृहि प्राणांस्त्राणार्थमनयोर्द्वयोः ।
दधती धैर्यमधुना वचनेनामुना मम ॥२६॥
इति विठ्ठलराजस्तां पर्याश्वासयदात्मनः ।
स्थित्यर्थमन्ववायस्य राज्यस्य च विशेषतः ॥२७॥
दत्तदृष्टिस्तु सा देवी वात्सल्यात्तनयद्वये ।
अपास्य शोकमनघा बभार बत जीवितम् ॥२८॥
महान्तमपि तं शोकं निगृह्य स महामतिः ।
अकारयद्विधिं भ्रातुः सकलं पारलौकिकम् ॥२९॥
ततःशाहं शरीफं च पुरस्कृत्य प्रतापिना ।
चक्रे विठ्ठलराजेन राज्यं तदखिलं स्थिरम् ॥३०॥
निशम्यैतव्रिजामोपि निधनं मालवर्मणः ।
पक्षहीनामिव निजां बत मेने पताकिनीम् ॥३१॥
ततः शाहशरीफाह्नौ मालवर्मसुतावुभौ ।
समं विठ्ठलराजेन समनाय्य महामनाः ॥३२॥
सान्त्वायित्वा स्वयं दत्वा ताभ्यां तत् पितृवैभवम् ।
सत्कृत्य हेमाभरणैर्वासोभिश्च मनोहरैः ॥३३॥
अनर्घ्यमणिमालाभिस्तथा च गजवाजिभिः ।
विसृष्टवान् गृहानेतौ तुष्टो धारागिरीश्वरः ॥३४॥
अथ तेन पितृव्येण परिपालितयोस्तयोः ।
वपुषी बाल्यसंपृक्ते परां पुपुषतुः श्रियम् ॥३५॥
प्रशस्तलक्षणोपेते निकेते सर्वसंपदाम् ।
सोदरेऽथ शरीफस्य राजशब्दो व्यराजत ॥३६॥
तं बालमपि भूपालमणयस्संर्व एव ते ।
मानयन्तो नमन्ति स्म महाभुजमुमात्मजम् ॥३७॥
ततश्शरीरं शाहस्य प्रविष्टे नवयौवने ।
ससंबाधेव शिशुता संचुकोच शनैश्शनैः ॥३८॥
करिपोतमिवोदंचन्मदराजिविराजितम् ।
व्यक्तीभवन्नवश्मश्रुलेखं लेखमनोहरम् ॥३९॥
सुवर्णविस्फुरद्वर्णमाकर्णायतलोचनम् ।
कृतकीरकुलत्रासनासावंशमनोहरम् ॥४०॥
कलाधरतिरस्कारि मनोहारि मुखं पनः ।
जानुपर्यन्तविश्रान्तभुजमद्भुतविग्रहम् ॥४१॥
दानवीरं दयावीरं युद्धवीरं महौजसम् ।
मालभूपसुतं शाहं वरलक्षणलक्षितम् ॥४२॥
दृष्ट्वा यादवराजेन राजराजसमश्रिया ।
दिष्टे दैवज्ञसंदिष्टे विशिष्टेभिमतैंर्ग्रहैः ॥४३॥
कुलकन्या कुले धन्या कन्या कुवलयेक्षणा ।
दत्ता सदक्षिणा तस्मै जिजूर्विजयलक्षणा ॥४४॥
सा तं महाशयं प्राप्य बिभ्नती वपुरुज्वलम् ।
गंगेव गुणगंभीरा व्यराजत महोदधिम् ॥४५॥
स च तां प्रेयसीं लब्ध्वा पद्महस्तां भुवः श्रियम् ।
लावण्यवैभववतीमतीव महितान्वयाम् ॥४६॥
नितंबप्रान्तविश्रान्तस्निग्धश्यामलकुन्तलाम् ।
चन्द्रार्धभ्रांतिकृद्भालां शरासनसमभ्रुवम् ॥४७॥
सत्तामिव मनोजस्य लसत्तामरसेक्षणाम् ।
सुवर्णशुक्तिप्रतिमश्रुतिं सरलनासिकाम् ॥४८॥
प्रत्यग्रतरकुन्दाग्रदन्तीं शोणरदच्छदाम् ।
विकस्वरांभोजमुखीं कंबुकण्ठीं पिकस्वराम् ॥४९॥
मृणाळकोमळभुजां नवांकुरितयौवनाम् ।
व्याकोशांभोरुहशयां लसत्किसलयांगुलिम् ॥५०॥
स्निग्धारुणनखश्रेणिं निम्ननाभिं तनूदरीम् ।
रंभास्तंभाभिरामोरूं गूढगुल्फां यशस्विनीम् ॥५१॥
राजरेखांकितपदां प्रशस्तिं सर्वसंपदाम् ।
नानालंकारसंभारसंदृब्धस्निग्धवेणिकाम् ॥५२॥
मुक्तामणिश्रेणिकांतसीमन्तप्रान्तवर्तिना ।
स्फुरितारुणवर्णेन शिरःपुष्पेण शोभिताम् ॥५३॥
सुवृन्ते स्वर्णताटंके पर्यन्तप्रोतमैक्तिके ।
दधतीं दीधितिमतीं सरत्नां च ललाटिकाम् ॥५४॥
पृथुमुक्तामणिमयोदारहारमनोहराम् ।
रत्नमुक्तांचितानेकगुच्छगुच्छार्धधारिणीम् ॥५५॥
केयूरकान्तिकिर्मीरसरत्नकरकंकणाम् ।
कृशावलग्नसंलग्नसप्तकीसंभृतश्रियम् ॥५६॥
कलहंसगतिं शिजन्मणिमंजीरशालिनीम् ।
अनर्घ्यरत्नाभरनप्रसाधितपदांगुलिम् ॥५७॥
सुवर्णतन्तुसंतानविलसद्वसनावृताम् ।
रत्नमुक्तामणिव्रातस्फुरत्कूर्पासकान्विताम् ॥५८॥
पश्यन् प्रसन्नवदनां प्रसन्नवदनः स्वयम् ।
सूर्यवंशमनिस्तूर्यघोषेण गृहमाविशत् ॥५९॥
समागतां समं तेन पत्या प्रश्रयसंश्रयाम् ।
श्रियं नारायणेनेव प्रविशंतीं निकेतनम् ॥६०॥
संभूयाशु समेताभिः पश्यन्तीभिस्सविभ्रमम् ।
सुभगाभिः पुरन्ध्रीभिः कृतनीराजनाविधिम् ॥६१॥
वन्दमानाममोघाभिराशीर्भिरभिनन्दिताम् ।
स्नुषामिमामथ श्वश्रूः सकौतुकमलोकत ॥६२॥
श्वश्रूशुश्रूषणपरां पतिप्रियतरोत्तराम् ।
शीलसंरक्षणे सज्जां लज्जां मूर्तिमतीमिव ॥६३॥
साध्वीजनाध्वमर्यादामन्वयद्वयसम्मताम् ।
जनीं नन्दत्परिजनामभ्यनन्दन्सतीजनाः ॥६४॥
सुतां विश्वासराजस्य दुर्गां नाम्नाथ सद्गुणाम् ।
शरीफोपि महाबाहुर्भव्यां भार्यामविन्दत ॥६५॥
सा तया च तया तन्व्या स्नुषया सेवितान्वहम् ।
विनीताभ्यां च पुत्राभ्यामुमा लेभे परां मुदम् ॥६६॥
अगणितगुणभाजौ भ्रातरौ तावमूभ्यां ।
निरवधिकगुणाभ्यां भ्राजमानौ वधूभ्याम् ॥
सपदि निजयशोभिः शोभमानामशेषां ।
भुवमपि जनयित्रीं नन्दयामासतुः स्वाम् ॥६७॥
सार्धं तेनानुजेनाप्रतिहतगतिना मारुतेनेव शुष्मा ।
भीष्मादत्युग्रकर्मा युधि युधि विजयी विश्रुतः शाहवर्मा ।
कर्तुं नित्यं निजामप्रियमतुलबलः काण्डकोदण्डपाणिः ॥
सर्वेषां प्रार्थिवानां पृथुरिव पृथिवीवासवश्शासकोभूत् ॥६८॥
इत्यनुपुराणे सूर्यवंशे निधिवासकरपरमानंदप्रकाशितायां शतसाहस्र्यां संहितायां शाहशरीफपरिणयो नाम द्वितीयोध्यायः ।

Share this Story:

Follow Webdunia marathi

पुढील लेख

शिवभारत अध्याय पहिला