Dharma Sangrah

शिवभारत अध्याय सातवा

Webdunia
सोमवार, 26 ऑगस्ट 2024 (15:16 IST)
कवीन्द्र उवाच ॥
अथ तं शिशुरूपेण ललन्तं ललितद्युतिम् ।
नजानीतः स्म पितरावमानुषमुरुक्रमम् ॥१॥
अवतीर्णःक्षितितलं क्षोणीभारापनुत्तये ।
विहरन् बालरूपेणशाहराजनिकेतने ॥२॥
जनयित्रीं जनं चापि रंजयन् निजया श्रिया ।
अचेष्टत स सर्वात्मा तत्र तत्तद्विचेष्टितम् ॥३॥
सुत्रामकांक्षितं कर्तुं दितेः पुत्राननेकशः ।
संगरे संगरे हत्वा चतुर्बाहुरुदायुधः ॥४॥
यः श्रान्त इव निद्राति मध्ये दुग्धमहोदधेः ।
जननीस्तन्यपानाय व्यतानीद्रुदितानि सः ॥५॥
शिशुलीलाधरो रिंगन्स हरिन्मणिभूमिषु ।
प्रतिबिंबितमात्मानं बलेनदातुमैहत ॥६॥
जानुभ्यां रिंगतस्तस्य पदांबुजतलत्विषा ।
पद्मरागश्रियं प्रापुः प्रांगणस्थास्सितोपलाः ॥७॥
धूलिधूसरितांगस्य रिंगतोस्य गृहांगणे ।
रंजयामास जननीं मणिमंजीर हींजितम् ॥८॥
स लीलातरलस्तत्ररिंगन्मणिमयेंगणे ।
बतात्मप्रतिबिंबेन प्रास्पर्धत पदे पदे ॥९॥
अपिबन्यत्प्रसादेन सुधां सर्वे सुधान्धसः ।
अहो सोपि मुदं प्रपादास्वाद्य मृदुलां मृदम् ॥१०॥
छलयन् यो बलिंलोकाम्स्त्रीन्ललंघे त्रिभिः क्रमैः ।
बतालंघत यत्नेन सदेवो गेह देहलीम् ॥११॥
सप्तानामपि लोकानां योवलंबः स्वयं प्रभुः ।
उदतिष्ठदहो धृत्वा सोपि धात्रीकरांगुलिम् ॥१२॥
धवलोपलबद्धासु भित्तिषु प्रतिबिंबितम् ।
बिंबमंशुमतो वीक्ष्य तर्जन्यग्रेणदर्शन् ॥१३॥
आदाय निजाहस्तेन मह्यं देहीत्यहोरुदन् ।
समुग्ध इव मौग्ध्येन मातरं पर्यहासयत् ॥१४॥
स्वहस्तपुष्करोध्दूत धूळिधूसरमस्तकम् ।
उद्भिद्यमानदंताग्र कुंदकुड्मळ भूषितम् ॥१५॥
ललंतं निलयद्वारि द्विरदस्येव शावकम् ।
विनेतुमागताधात्री विलोक्य स्तिमिताभवत् ॥१६॥
स धात्री करतालीभिः संवरेधितकुतूहलः ।
कुरुतेस्म स्मेरमुखो लास्यलीलामनेकधा ॥१७॥
अपाठ्यद्विधातारं निगमान्यः सलक्षणान् ।
सोपि धात्रीमुखात्तत्तन्नामधेयमपीपठत् ॥१८॥
उत्तार्योतार्य तरसा स्वरसात्ससमर्धकः ।
व्यश्राणयदलंकारान् धात्रीभ्यस्स्वशरीरतः ॥१९॥
अनादृत्यपितुस्तांस्तान् द्विपान्दृप्तांस्तथाहयान् ।
प्रभुर्मंतुममंतुंच बह्वमंस्त स मृन्मयान् ॥२०॥
स्पृहयाळुश्शिखंडेभ्यः शोभमानाशिखंडकः ।
अन्वधावदहोडिंभः सखंडानिशिखंडिनाम् ॥२१॥
शिखिनां च शुकानां च पिकानां च रुतान्यसौ ।
विकुर्वाणोनुकुर्वाणस्तत्तद्भ्रमकरोभवत् ॥२२॥
स एष किल कुर्वाणः शिशुश्शार्दूळ शाब्दितम् ।
पार्श्ववर्ती स्नेहपात्रीमपिधात्रीमभीषयत् ॥२३॥
अभ्रांतोपिभ्रमरवद् भ्रमिं भ्रांतः कदाचन ।
हृष्टो हय इवहेषामह्लेषत कदाचन ॥२४॥
उच्चैरुदचरेद्दन्ति बृंहितानि कदाचन ॥२५॥
पूरयद्भिर्धरांद्यां च गभीरमधुरस्वरैः ।
सोभिमानपरोभेरीमन्वकार्षीत् कदाचन ॥२६॥
मृत्कूटान्यपि तुंगानि कारयन् स किशोरकैः ।
इमानि ममदुर्गाणीत्यवोचत कदाचन ॥२७॥
निलीनः सद्मनः कोणे दृड्निमीलनकेलिषु ।
अन्विष्य सखिभिः स्पृष्टो हसतिस्म कदाचन ॥२८॥
पतितं पाणिना हस्तदुत्पततं मुहुर्मुहुः ।
अताडयत् पातयितुं कन्दुकंच कदाचन ॥२९॥
आत्मनोत्पातितंदूरात् पतंतं व्योममंडलात् ।
कंदुकं कृष्णसाराक्षः पश्यन्नवहितोन्मुखः ॥३०॥
नृत्यन्निव पदद्वंद्व तलताडितभूतलः ।
प्रोत्तानिताभ्यां पाणिभ्यामग्रहीत्स कदाचन ॥३१॥
दृष्टो हरति यस्तूर्णं जन्मिनां जननभ्रमम् ।
अभ्रामयदहोदारुभ्रमरं स कदाचन ॥३२॥
प्रतिषिद्धोपिधात्रीभिस्तर्जनी तर्जनादिना ।
शाहसिंहशिशुस्तास्तां शिशुलीलां व्यगाहत ॥३३॥
भुंक्ष्वेत्युक्तोपिनाभुंक्त पिबेत्युक्तोपिनापिबत् ।
अनुनीय स धात्रीभिः शेष्वेत्युकोपिनास्वपत् ॥३४॥
तत्तद् खेलावसक्तात्मा स आत्मा जगतः परः ।
समाहूतो जनन्यापि व्यधाद्दूरमपाक्रमम् ॥३५॥
यत्रयत्राव्रजद् बाललीला रसवशः शिवः ।
तमन्वपालयंस्तत्र तत्रदेवास्सवासवाः ॥३६॥
यः श्रीमान् करुणानिधिः सुमनसामाधारभूतः स्वयं
संजातः किल शाहभूपभवने हर्तुं धरित्रीभयम् ।
वेदांतैः पठितः पुराणपुरुषः ख्यातः पुराणेषु य
स्तं प्राप्य श्रियमाबभार महतीं बाल्याभिधानं वयः ॥३७॥
इत्यनुपुराणे कवींद्रपरमानंदविरचिते शिशुलीलावर्णनं नाम सप्तमोध्यायः

संबंधित माहिती

सर्व पहा

नक्की वाचा

अधिक मासात मुलीने आईची ओटी का भरावी? जाणून घ्या धार्मिक कारण

Adhik Maas 2026 Upay अधिक मासात ३३ दिवे लावण्यामागील रहस्य: ३३ कोटी देवतांचा आशीर्वाद प्राप्त करा

तणाव व्यवस्थापन करण्यासाठी जीवनशैलीत हे बदल करा

इयत्ता ११वीत विज्ञान, वाणिज्य की कला तुमच्यासाठी कोणती शाखा सर्वोत्तम आहे जाणून घ्या

रेशमी साडी खरेदी करताना फसवणुकीला बळी पडू नका, अशी तपासा

सर्व पहा

नवीन

वयस्कर स्त्रीला आकर्षित कसं करावं? सर्वात महत्त्वाची गोष्ट कोणती ते जाणून घ्या

Delicious Dishes पुदिन्यापासून बनवता येणारे ५ सोपे आणि स्वादिष्ट पदार्थ

लिंबू पाणी प्यायल्याने ॲसिडिटीपासून आराम मिळतो का, तज्ञ काय सांगतात

DRDO Internship : डीआरडीओमध्ये इंटर्नशिपची सुवर्णसंधी, विद्यार्थ्यांना ३०००० विद्यावेतन मिळेल, सविस्तर माहिती जाणून घ्या

Coconut For Haircare: दाट आणि मऊ केसांसाठी नारळाच्या दुधाचा वापर कसा करायचा

पुढील लेख
Show comments