Dharma Sangrah

जीवन्मुक्तानन्दलहरी स्तोत्रम Jeevanmuktanandalahari Stotram

Webdunia
सोमवार, 29 सप्टेंबर 2025 (06:34 IST)

जीवन्मुक्तानन्दलहरी। पुरे पौरान्पश्यन्नरयुवतिनामाकृतिमयान सुवेशान स्वर्णालङ्करणकलिताञ्चित्रसद्रुशान । स्वयं साक्षी द्रष्टेत्यपि च कलयंस्तैः सह रमन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१॥

वने वृक्षान्पश्यन दलफलभरान्नम्रमुशिखान्घनच्छायाछन्नान बहुलकलकूजद्विजगणान । भक्षन घस्रे रात्राववनितलतल्पैकशयनो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥२॥

कदाचित्प्रासादे क्वचिदपि तु सौधे च धवळे कदाकाले शैले क्वचिदपि च कूले च सरिताम । कुटीरे दान्तानां मुनिजनवराणामपि वसन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥३॥  

क्वचिद्वालैः सार्धे करतलजतालैश्च हसितैः क्वचिद्वै तारुण्याङ्कितचतुरनार्या सह रमन । क्वचिद्वऐद्धश्चिन्तां क्वचिदपि तदन्यैश्च विलपन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥४॥

कदाचिद्विद्वद्भिर्विविधसुपुरानन्दरसिकैः कदाचित्काव्यालङ्कृतरसरसालैः कविवरैः । वदन्वादांस्तकैंरनुमितिपरैस्तार्किकवरैर्मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥ ५॥

कदा ध्यानाभ्यासैः क्वचिदपि सपर्या विकसितैः सुगन्धै सत्पुष्पैः क्वचिदपि दलैरेव विमलैः । प्रकुर्वन्देवस्य प्रमुदितमनाः संस्तुतिपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥६॥

शिवायाः शंभोर्वा क्वचिदपि च विष्णोरपि कदा गणाध्यक्षस्यापि प्रकटतपनस्यापि च कदा । पठन्वै नामालिं नयनरचितानन्दसलिलो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥७॥

कदा गङ्गांभोभिः क्वचिदपि च कूपोत्थितजलैः क्वचित्कासारोत्थैः क्वचिदपि सदुष्णैश्च शिशिरैः । भजन्स्नानैर्भूत्या क्वचिदपि च कर्पूरनिभया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥८॥

कदाचिज्जागृत्यां विषयकरणैः संव्यवह मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥९॥

कदाप्याशावासाः क्वचिदपि च दिव्याम्बरधरः क्वचित्पञ्चास्योत्थां त्वचमपि दधानः कटितटे । मनस्वी निःशङ्कः स्वजनहृदयानन्दजनको मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१०॥

कदाचित्सत्त्वस्थः क्वचिदपि रजोवृत्तियुगतस्तमोवॄत्तिः क्वापि त्रितयरहितः क्वापि च पुनः । कदाचित्संसारी श्रुतिपथविहारी क्वचिदपि मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥११॥

कदाचिन्मौनस्थः क्वचिदपि च व्याख्याननिरतः कदाचित्सानन्दं हसति रमसत्यक्तवचसा । कदाचिल्लोकानां व्यवहृतिसमालोकनपरो मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१२॥

कदाचिच्छक्तीनां विकचमुखपद्मेषु कवलान्क्षिपंस्तासां क्वापि स्वयमपि च गृह्वन्स्वमुखतः । महाद्वैतं रूपं निजपरविहीनं प्रकटयन मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१३॥

क्वचिच्छैवैः सार्धं क्वचिदपि च शाक्तैः सह वसन कदा विष्णोर्भक्तैः क्वचिदपि च सौरैः सह वसन । कदागाणापत्यैर्गत सकलभेदोऽद्वयतया मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षततमा ॥१४॥

निराकारम क्वापि क्वचिदपि च साकारममलम निजं शैवं रूपं विविधगुणभेदेन बहुधा । कदाश्चर्यं पश्यन्किमिदमिति हॄष्यन्नपि कदा मुनिर्न व्यामोहं भजति गुरुदीक्षाक्षत

जीवन्मुक्तानन्दलहरी स्तोत्रम

 

संबंधित माहिती

सर्व पहा

नवीन

Shriram Navami Naivedya श्रीराम नवमी निमित्त बनवला जाणारा पारंपरिक प्रसाद

Ram Navami 2026 रामनवमीला काय करावे आणि काय करू नये? नियम जाणून घ्या....

Shri Ram Navami Temple Darshan देशातील पाच प्रमुख भव्य श्रीराम मंदिरे

Shriram Aarti Sangrah सर्व श्रीराम आरत्या मराठीत

Lord Ram Naivedya प्रभू श्रीरामांचा आवडता पदार्थ कोणता आहे?

सर्व पहा

नक्की वाचा

देवाची पूजा करतांना कोणते स्तोत्र आवर्जून म्हणावे?

घरात धार्मिक कार्य करतांना कोणती काळजी घ्यावी?

तुमच्या मोबाईल क्रमांकाचा शेवटचा अंक तुमच्यासाठी शुभ आहे का?

Sanskrit Baby Girl Names चैत्र गौरी निमित्त खास! मुलींसाठी गौरी पासून प्रेरित २० नावे अर्थासहित

Delayed Periods २ महिन्यांपासून मासिक पाळी आली नाही? घाबरू नका, स्वयंपाकघरातील हे ५ पदार्थ करतील कमाल

पुढील लेख
Show comments